________________
पर्याप्त्यधिकारः। wwwmmmm मवर्ण स्यात् तत्पंचविध; कृष्णवर्णनाम, नीलवर्णनाम, रक्तवर्णनाम, हरितवर्णनाम, शुक्लवर्णनाम चेति । यस्य कर्मण उदयेन शरीरपुद्गलानां कृष्णवर्णता भवति तत्कृष्णवर्णनामैव शेषाणामपि द्रष्टव्यं ॥ यस्य कर्मस्कंधस्योदयाज्जीवशरीरे जातिप्रतिनियततिक्तादिरसो भवति तद्रस इति संज्ञा, एतस्य कर्मणोऽभावे जातिप्रतिनियतरसो न भवेत् निवादीनां प्रतिनियतरसोपलंभात्। तत्पंचविधं; तिक्तनाम कटुकनाम, कषायनाम, आम्लनाम, मधुरनाम चेति । यस्य कर्मण उदयेन शरीरपुद्गलास्तिक्तरसस्वरूपेण परिणमंति तत्तिक्तनामैवं शेषाणामप्यर्थो वाच्य इति ॥ यस्य कर्मस्कंधस्योदयेन जीवशरीरे जातिप्रति नियतोगंध उत्पद्यते तस्य गंध इति संज्ञा, न च तस्याभावो हस्त्यजादिषु प्रतिनियतगंधोपलंभात् । तत् द्विविधं सुरभिगंधनामासुराभिगंधनाम चेति । यस्य कर्मस्कंधस्योदयेन शरीरपुद्गलाः सुरभिगंधयुक्ता भवंति तत्सुरभिगंधनाम, यस्य कर्मस्कंधस्योदयेन शरीरपुद्गला दुर्गंधा भवंति तदुर्गधनामेति ॥ यस्य कर्मस्कंधस्योदयेन जीवशरीरे जातिप्रतिनियतःस्पर्श उत्पद्यते तत्स्पर्शनाम न चैतस्याभावः सर्वोत्पलकमलादिषु प्रतिनियतस्पर्शदर्शनात्तदष्टविधं; कर्कशनाम, मृदुनाम, गुरुनाम, लघुनाम, स्निग्धनाम, रूक्षनाम, शीतनाम, उष्णनाम चेति । यस्य कर्मस्कंधस्योदयेन शरीरपुद्गलानां कर्कशभावो भवति तत्ककशनामैवं शेषस्पर्शानामप्यर्थो वाच्यः ॥ आनुपूयं; पूर्वोत्तरशरीरयोरंतराले एकद्वित्रिसमयेषु वर्तमानस्य यस्य कर्मस्कंधस्योदयेन जीवप्रदेशानां विशिष्टः संस्थानविशेषो भवति तदानुपूर्व्य नाम, न च तस्याभावो विग्रहगतौ जातिप्रतिनियतसंस्थानोपलंभात् उत्तरशरीरग्रहणं प्रति गमनोपलंभात् । तच्चतुर्विधं; नरकगतिप्रायोग्यानुपूर्व्य, तिर्यग्गतिप्रायोग्यानुपूर्व्य, मनुष्यगतिप्रायोग्यानुपूर्व्य, देवगीतप्रायोग्यानुपूर्व्य चेति । यस्य कर्मस्कंधस्योदयेन नरकगति गतस्य जीवस्य विग्रहगतौ वर्तमानस्य नरकगतिप्रायोग्यसंस्थानं भवति तन्नरकगतिप्रायोग्यानुपूर्णं नामैवं शेषाणामप्यर्थो वाच्य इति ॥ यस्य कर्मस्कंधस्योदयाज्जीवोऽनंतानंतपुद्गलपूर्णोऽयःपिंडवद्गुरुत्वान्नाधः पतति न