________________
मूलाचारे
टीका - परमायुरित्यनुवर्त्तते- चंदस्स - चंद्रस्य, सदसहस्सं - शतसहस्रं, शतसहस्रेण, अत्र तृतीयार्थे द्वितीया, सहस्स– सहस्रेण, रविणो - रवेरादित्यस्य, शतं च - शतेन च, सुक्कस्स - शुक्रस्य, वास-वर्षाणां, अधियंअधिकं, हि-स्फुटं निश्चयेन, पल्लं - पल्यं, पल्योपमं, लेहिट्टं - न्यूनं हीनं अनंतरेण शतेनाभिसंबंधः, वरिसणामस्स - वर्षनाम्नः बृहस्पतेः । चंद्रस्य परमायुरेकं पल्योपमं वर्षाणां शतसहस्रेणाधिकं, रवेरेकं पल्योपमं परमायुर्वर्षाणां सहस्रेणाधिकं, शुक्रस्य परमायुरेकं पल्योपमं वर्षाणां शतेनाधिकं, बृहस्पतेरेकं पल्योपमं वर्षाणां शतेन न्यूनं स्फुटमिति ॥ ८१ ॥ अथ कथं शेषाणामित्यत आह;
२३४
सेसाणं तु गहाणं पलद्धं आउगं मुणेयव्वं । ताराणं च जहण्णं पादद्धं पादमुक्कस्सं ॥ ८२ ॥ शेषाणां तु ग्रहाणां पल्यार्द्ध आयुः मंतव्यं । ताराणां च जघन्यं पादार्धं पादमुत्कृष्टं ॥ ८२ ॥
टीका - सेसाणं - शेषाणां, तुशब्दः समुच्चयार्थः स नक्षत्राणि समुच्चि - नोति । गहाणं - ग्रहाणां, पल्लुद्धं - पल्यस्यार्द्धं, आउगं - आयुः, मुणेयव्वंज्ञातव्यं । ताराणं- ताराणां ध्रुवकीलकादीनां चशब्दात्केषांचिन्नक्षत्राणां च, जहण्णं - जघन्यं निकृष्टं पादद्धं - पादार्द्ध पल्योपमपादस्यार्द्ध पत्योपमस्याष्टमो भागः, पादं - पादः पल्योपमस्य चतुर्थो भागः उक्करसं - उत्कृष्टं, शेषाणां ग्रहाणां मंगल बुधशनैश्वरराहुकेत्वादीनां केषांचिन्नक्षत्राणां चोत्कृष्टमायुः पल्योपमार्द्धं ताराणां केषांचिन्नक्षत्राणां चोत्कृष्टमायुः पल्योपमस्य चतुर्थो भाग तेषामेव च जघन्यमायुः पल्योपमस्याष्टमभागः । एवं प्रतरासंख्यातभागप्रमितानां ज्योतिषां परमायुर्निकृष्टायुश्च वेदितव्यमिति ॥ ८२ ॥
तिर्यङ्कनुष्याणां निकृष्टमायुः प्रतिपादयन्नाह ;सव्वेसिं अमणाणं भिण्णमुहुत्तं हवे जहण्णेण । सोवकमाउगाणं सण्णीणं चावि एमेव ॥ ८३ ॥
2