SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ पर्यायाधिकाराः । " सर्वेषां अमनस्कानां भिन्नमुहूर्तं भवेत् जघन्येन । खोपक्रमायुष्काणां संज्ञिनं चापि एवमेव ॥ ८३ ॥ टीका - सव्वेसिं- सर्वेषां अमणाणं - अमनस्कानां सर्वग्रहणादेर्केन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिंद्रियाणां च ग्रहणं वेदितव्यं भिण्णमुहुत्तंभिन्नमुहूर्तं क्षुद्रभवग्रहणमुच्छ्रासस्य किंचिन्न्यू नाष्टादशभागः, हवे - भवेत्, जहण्ोण - जघन्येन जघन्यं वा, सोवक्कमाउगाणं - उपक्रम्यत इति उपक्रमः विषवेदनारक्तक्षयभयसंक्लेशशस्त्रघातोच्छ्रास निश्वासनिरोधैरायुषो घातः, सह उपक्रमेण वर्तत इति सोपक्रममायुर्येषां ते सोपक्रमायुषः सघातायुषस्तेषां सोपक्रमायुषां सण्णीणं-संज्ञिनां समनस्कानांच चशब्दो मनुष्याणां समुच्चयार्थस्तेनात्र त्रिषष्टिशला कापुरुषचरमदेहवर्जितमनुष्याणां ग्रहणं भवति । सोपक्रमविशेषणेन च देवनारकभोगभूमिजभोगभूमिप्रतिभागजानां प्रतिषेधो भवति, अवि एमेव अप्येवमेव भिन्नमुहूर्त्तमेव किंतु पूर्वोक्ताद्भिन्नमुहूर्त्तादयं भिन्नमुहूर्तो महान्, एकेंद्रियेषु क्षुद्रभवग्रहणं यतोऽतोऽप्येवमेव ग्रहणेन सूचितमेतदर्थ जातं, अपर एवकारो निश्चयार्थः । सर्वेषाममनस्कानां जघन्यमायुर्भिन्नमुहूर्तं भवेत् सोपक्रमायुषां कर्मभूमिजानां कर्मभूमिप्रतिभागजानां च संज्ञिनां तिरश्चां त्रिषष्टिशलाकापुरुषचरमदेहादिवर्जितमनुष्याणां चाप्येव जघन्यमायुरं तर्मुहूर्तमेवेति ॥ ८३ ॥ ययपि प्रमाणं पूर्वसूत्रः व्याख्यातं तथापि विशेषेण प्रमाणं द्रव्यक्षेत्रकालभावभेदेन चतुर्विधं, तत्र द्रव्यप्रमाणं द्विविधं संख्यातप्रमाणमुपमाप्रमाणं चेति तत्र संख्यातप्रमाणं तावन्निरूपयन्नाह, - संखेज्जमसंखेज्जं विदियं तदियमणंतयं वियाणाहि । तत्थ य पढमं तिविहं णवहा णवहा हवे दोणि ८४ संख्यातमसंख्यातं द्वितीयं तृतीयं अनंतं विजानीहि । तत्र च प्रथमं त्रिविधं नवधा नवधा भवेतां द्वे ॥ ८४ ॥ १ अस्मादग्रे ' पाठः ' इति पाठः प्रेसपुस्तके | > २३५
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy