________________
१३६
मूलाचारे
टीका - संखेज्जं - संख्यातं रूपद्वयमादिंकृत्वा यावद्रूपोनजघन्यपरीता - संख्यातं श्रुतज्ञानविषयभूतं, असंखेज्जं - असंख्यातं संख्यामतिक्रांतमवधिज्ञानविषयभूतं, विदियं द्वितीयं तदियं तृतीयं, अणंत्तयं - अनंतं असंख्यातमतिक्रांतं केवलज्ञानगोचरं वियाणाहि - विजानीहि तत्थ य तत्र च तेषु संख्याता संख्यातानंतेषु मध्ये पढमं - प्रथमं यत्संख्यातं तिविहं - त्रिविधं त्रिप्रकारं जघन्यमध्यमोत्कृष्टभेदेन; णवहा- नवधा नवप्रकारं, दोणि-वें, केते ? द्वितीयतृतीये । प्रथमं यत्संख्यातं तत्रिविधं द्वितीयं यदसंख्यातं तन्नवप्रकारं, तृतीयं यदनंतं तदपि नवप्रकारं । तत्र जघन्यसंख्यातं द्वे रूपे, रूपत्रयमादिं कृत्वा यावद्रूपोनोत्कृष्टं संख्यातं तत्सर्वमजघ• न्योत्कृष्ट संख्यातं जघन्यपरीतासंख्यातं रूपोनमुत्कृष्टं संख्यातं; अस्थानयनविधानमुच्यते-प्रमाणयोजनलक्षायामविस्तारावगाधाश्चत्वारः कुशूलाः शलाकाप्रतिशलाकामहाशलाकानवस्थितसंज्ञकास्तत्रैकमनवस्थितसंज्ञकं कुशूलं सर्षपपूर्ण कृत्वा देवो दानवो वा तत्रैकैकं सर्षपं द्वीपे समुद्रे तावत्क्षिपेत् यावद्विक्तः संजातः, ततः शलाकाकुंडे एकं सर्षपं क्षिपेत् अनवस्थितं कुंडं तावन्मात्रं पुनः प्रकृत्य सर्षपैश्च संपूर्ण कृत्वा द्वीपे समुद्रे च क्षिपेत् यत्र निष्ठितस्तत्र शलाकाकुंडे द्वितीयमेवं सर्षपं क्षिपेत् अनवस्थितं च कुंडं तावन्मात्रं प्रकृत्य सर्षपैश्च पूर्ण कृत्वा द्वीपसमुद्रे च क्षिपेत् । यत्र निष्ठितस्तत्र शलाकाकुंडे तृतीयं सर्षपं क्षिपेत् । अनवस्थितकुंडं च तावन्मात्रं प्रकृत्य सर्षपैश्च संपूर्ण कृत्वा द्वीपे समुद्रे च सर्षपक्षेपं, चतुर्थप्रदेशे शलाकाकुंडे सर्षपक्षेपं चैवं तावत्कर्त्तव्यं यावच्छलाका प्रतिशलाकामहाशलाकानवस्थितानि कुंडानि सर्वाणि पूर्णानि तदोत्कृष्टसंख्यातमतिलंध्य जघन्यपरीतासंख्यातप्रमाणं जातं तस्मादेके सर्षपेऽ पनीते जातमुत्कृष्टसंख्यातं । * असंख्यातं च परीतासंख्यातं युक्तासंख्यात
१ विषयं ख ग । २ तत्रिप्रकारं ख-ग । ३ मानवो वा प्रेस - पुस्तके | * पुष्पमध्यगतः पाठः ख-ग पुस्तकाच्च्युतः ।