SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ पर्याप्यधिकारः। २३७ मसंख्यातासंख्यातमिति त्रिविधं, परीतासंख्यातमपि जघन्यमध्यमोत्कृष्टभेदेन त्रिविधं युक्तासंख्यातमसंख्यातासंख्यातं च जघन्यमध्यमोत्कृष्टभेदेन त्रिविधं, तथानंतमपि परीतानंतयुक्तानंतानंतानंतभेदेन त्रिविधमेकैकं जघन्यमध्यमोत्कृष्टभेदेन त्रिविधं । जघन्यपरीतासंख्यातानि जघन्यपरीतासंख्यातमात्राणि परस्परगुणितानि कृत्वा तत्र यावन्मात्राणि रूपाणि तावन्मात्रं जघन्ययुक्तासंख्यातप्रमाणं तस्मादेके रूपेऽपनीते * उत्क्रष्टं परीतासंख्यातप्रमाणं जातं जघन्यपरीतासंख्यातोत्कृष्टपरीतासंख्यातयोर्मध्ये विकल्पोऽजघन्योत्कृष्टपरीतासंख्यातं, युक्तासंख्यातं अपरेण युक्तासंख्यातेन प्रगुण्य यावन्मात्राणि रूपाणि तावन्मानं जघन्यासंख्यातासंख्यातं तस्मादेके रूपेऽपनीते जातमुत्कृष्टं युक्तासंख्यातं, जघन्योत्कृष्टयोर्मध्येऽजघन्योत्कृष्ट युक्तासंख्यातं । जघन्यासंख्यातासंख्यातं त्रीन्वारान् वर्गितं संवर्गितं च कृत्वा धर्माधर्मलोकाकाशप्रत्येकशरीरैकजीवप्रदेशबादरप्रतिष्ठितैश्च संयुक्त कृत्वा पुनरपि त्रीन् वारान् वर्गितं संवर्गितं च कृत्वा स्थितिबंधाध्यवसानस्थानानुभागवंधाध्यवसानस्थानयोगविभागपरिच्छेदोत्सर्पिण्यवसर्पिणीसमयैश्च युक्ते कृते जातं जघन्यपरीतानंतं तस्मादेकेरूपेऽपनीते जातमुत्कृष्टमसंख्यातासंख्यातं तयोर्मध्ये मध्यमो विकल्पः । जघन्यपरीतानंतानि जघन्यपरीतानंतमात्राणि परस्परं प्रगुण्य यत्प्रमाणं भवति तज्जघन्यं युक्तानंतं तस्मादेके रूपेऽपनीते जातमुत्कृष्टं परीतानंतं जघन्योत्कृष्टयोर्मध्ये मध्यमो विकल्पः । जघन्ययुक्तानंतमपरेण जघन्ययुक्तानंतेन गुणितं जातं जघन्यानंतानंतं तस्मादेके रूपेऽपनीते जातमुत्कृष्टं युक्तानंतप्रमाणं जघन्योत्कृष्टयोर्मध्ये मध्यमो विकल्पः । जघन्यानंतानंतं त्रीन वारान् च वर्गितं * संवर्गितं च कृत्वा सिद्धनिगोदजीववनस्पतिकायपुद्गललोकाकाशानि प्रक्षिप्य पुनरपि त्रीन वारान् वर्गितं संवर्गितं च कृत्वा धर्माधर्मास्तिकायागुरुलघुगुणान् प्रक्षिम्य पुनरपि त्रीन वारान् वर्गितं संवर्गितं प्रकृत्य केवलज्ञानकेवल. दर्शनप्रमाणे प्रक्षिप्ते जातमुत्कृष्टमनंतानंतप्रमाणं जघन्योत्कृष्टयोर्मध्येऽजघ*पुष्पमध्यगतः पाठः ग-पुस्तके नास्ति ।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy