________________
२३८
मूलाचारे
न्योत्कृष्टो विकल्पः । यत्रयत्रानंतप्रमाणं परिगृह्यते तत्रतत्राजघन्योत्कृष्टानंतानंतप्रमाणं ग्राह्यं, यत्र यत्राभव्याः परिगृह्यते तत्र तत्र जघन्ययुक्तानंतप्रमाणं वेदितव्यं, यत्र यत्र चावलिका पठ्यते तत्र तत्र जघन्ययुक्तासंख्यातं भवतीत्यर्थः ॥ ८४ ॥ ___ उपमाप्रमाणार्थमाह;पल्लो सायर मूई पदरो य घणंगुलो य जगसेढी। लोगपदरो य लोगो अट्ठ दु माणा मुणेयव्वा ॥५॥
पल्यं सागरः सूची प्रतरश्च धनांगुलं च जगच्छ्रेणी । लोकप्रतरश्च लोकः अष्टौ तु मानानि ज्ञातव्यानि ॥ ८५॥ टीका—पल्लो-पल्यं पल्योपमं, सायर-सागरः सागरोपमं, सूई-सूची सूच्यंगुलं, पदरो य-प्रतरश्च प्रतरांगुलं, घणंगुलो य-घनांगुलं च, जगसेढीजगच्छ्रेणी, लोगप्रदरो य-लोकप्रतरं च, लोगो-लोकः अट्ठ दु-अष्टौ तु, माणा-मानानि प्रमाणानि, मुणेयव्वा-ज्ञातव्यानि । उद्धारपल्योपममुत्पादितं तत्र यानि रोमायाणि तान्येकैकं * वर्षशतसमयमात्राणि खंडानि कर्त्तव्यानि एवं कृते यत्प्रमाणमेतेषां रोमाणां तदद्धापल्योपमं प्रमाणं अनेन पल्योपमेन सर्वः कर्मस्थित्यादिद्रष्टव्यः । एतेषामद्धापल्योपमानां दशकोटीकोटिप्रमाणानामेकमद्धा सागरोपमं भवति, अनेन सागरोपमप्रमाणेन देवनारकमनुष्यतिरश्चां कर्मस्थितिभवस्थित्यायुःस्थितयो ज्ञातव्याः। सूच्यंगुलमुच्यते-अद्धापल्योपममर्द्धनार्द्धन तावत्कर्त्तव्यं यावदेकरोम, तत्र यावंत्यर्द्धछेदनानि अद्धापल्योपमस्य तावन्मात्राण्यद्धापल्योपमानि परस्पराभ्यस्तानि कृत्वा यत्प्रमाणं भवति तावन्मात्रा आकाशप्रदेशा ऊर्द्धमावल्याकारेण रचितास्तेषां यत्प्रमाणं सूच्यंगुलं । तत्सूच्यंगुलं तदपरेण सूच्यंगुलेन गुणितं प्रतरांगुलं । तत्प
१ उपमाप्रमाणमाह-ख । २ अस्य स्थाने ' कर्मस्थितिर्भवति भवन्ति चायु:स्थितयो ज्ञातव्याः' इति पाठः प्रेस-पुस्तके ।