________________
पर्याप्त्यधिकारः।
२३९
तरांगुलमपरेण सूच्यंगुलेन गुणितं घनांगुलं । जगच्छ्रेणिरुच्यते-पंचर्विशतिकोटीकोटीनामुद्धारपल्यानां याति रूपाणि लक्षयोजनार्द्धछेदनानि च रूपाधिकान्येकैकं द्विगुणीकृतान्यन्योन्यभ्यस्तानि यत्प्रमाणं सा रज्जुरिति रज्जुः सप्तभिर्गुणिता श्रेणिः वा परया गुणिता श्रेण्या जगत्प्रतरं, जगत्प्रतरं च जगच्छ्रेण्या गुणितं लोकप्रमाणं । सूच्यंगुलस्य संदृष्टिः २ । प्रतरांगुलस्य संदृष्टिः ४ । घनांगुलस्य संदृष्टिः ८ । रज्जोः संदृष्टिः ? । श्रेणिसंदृष्टिः । जगत्प्रतरस्य संदृष्टिः ? । लोकस्य संदृष्टिः १८ । संख्यातस्यं संदृष्टिः ९ । असंख्यातस्य संदृष्टिः ६ । अनंतस्य संदृष्टिः ६ । क्षेत्रप्रमाणं लिक्षायवांगुलवितस्तिरत्निकिष्कुधनुर्योजनादिस्वरूपेण ज्ञातव्यम् । कालप्रमाणं परमसूक्ष्मः समयः अणोरण्वंतरव्यतिक्रमः कालः समयः, जघन्ययुक्तासंख्यातमात्रा. समया आवलीनाम् प्रमाणं असंख्यातावल्यः कोटीकोटीनामुपरि यत्प्रमाणं स उच्छ्रासः, सप्तभिरुच्छ्रासैः स्तवः, सप्तभिः स्तवैर्लवा, अष्टत्रिंशल्लवानामर्द्धलवा च नाडी, द्वे नाड्यौ मुहूर्तः, त्रिंशन्मुहूर्तेर्दिवसरात्रिः इत्येवमादिकालप्रमाणं । भावप्रमाणं मतिश्रुतावधिमनःपर्ययकेवलज्ञानाति परोक्षप्रत्यक्षाणि । एवं प्रमाणसूत्रं व्याख्यातमिति ॥ ८५ ॥ ___ स्वामित्वेन योगस्य स्वरूपमाह;वेइंदियादि भासा भासा य मणो य सण्णिकायाणं । एइंदिया य जीवा अमणाय अभासया होंति ॥८६॥ द्वीन्द्रियादीनां भाषा भाषा च मनश्च संज्ञिकायानां । एकेंद्रियाश्च जीवा अमनस्का अभाषका भवंति ॥ ८६ । टीका-कायवाङ्मनसां निमित्तं परिस्पंदो जीवप्रदेशानां योगस्त्रिंविधः कायवाङ्मनोभेदेन । वेइंदियादि-दीन्द्रियादीनां द्वीन्द्रियत्रीन्द्रियचतुरिद्रियाणां असंज्ञिपेंचेन्द्रियाणां च भासा-भाषा वचनव्यापारः । भासा य१ निमित्तः ख-ग। २ त्रिप्रकारः ख-ग।