________________
पर्याप्त्यधिकारः।
२३३
पणयं दस सत्तधियं पणवीसं तीसमेव पंचषियं । चत्तालं पणदालं पण्णाओ पण्णपण्णाओ ।। ८० ॥ पंच दश सप्ताधिकानि पंचविंशतिः त्रिंशत् एव पंचाधिका। चत्वारिंशत् पंचचत्वारिंशत् पंचाशत् पंचपंचाशत् ॥ ८० ॥ टीका-पणयं-पंच सौधर्मेशानयोर्दैवीनां पंचपल्योपमानि परमायुः । दस सत्तधियं-दश सप्ताधिकानि सनत्कुमारमाहेंद्रयोर्देवीनां परमायुः सप्तदशपल्योपमानि पणवीसं-पंचविंशतिः ब्रह्मब्रह्मोत्तरयोर्दैवीनां पंचविंशतिः पल्योपमानि परमायुः, तीसमेव पंचधियं-त्रिंशदेव पंचाधिका लांतवकापिष्ठयोर्दैवीनां त्रिंशदेवपंचाधिका पल्योपमानां परमायुः, चत्तालंचत्वारिंशच्छुक्रमहाशुक्रयोर्दैवीनां चत्वारिंशत्पल्यानां परमायुः, पणदालं पंचचत्वारिंशत् शतारसहस्रारयोर्देवानां पंचचत्वारिंशत्पल्यापमानां परमायुः, पण्णासं-पंचाशत् आनतप्राणतयोर्दैवीनां परमायुः पंचाशत्पल्योपमानि, पण्णपण्णाओ-पंचपंचाशदारणाच्युतयोर्दैवीनां परमायुषः प्रमाणं पंचपंचाशत्पल्योमानि । आऊ-आयुः सर्वत्रानेन संबंधः । देवायुषः प्रतिपादनन्यायेनायमेवोपदेशो न्याय्योऽत्रैवकारकरणादथवा दावप्युपदेशौ ग्राह्यौ सूत्रद्वयोपदेशात् द्वयोर्मध्य एकेन सत्येन भवितव्यं, नात्र संदेहमिथ्यात्वं, यदर्हत्प्रणीतं तत्सत्यमिति संदेहाभावात् । छद्मस्थैस्तु विवेकः कर्तु न शक्यतेऽतो मिथ्यात्वभयादेव द्वयोर्ग्रहणमिति ॥ ८० ॥
ज्योतिषां यद्यपि सामान्येन प्रतिपादितं जघन्यं चोत्कृष्टमायुस्तथापि स्वामित्वपूर्वको विशेषो नावगतस्तत्र तत्प्रतिपादनायाह;-. चंदस्स सदसहस्सं सहस्स रविणो सदं च सुक्कस्स । वासाधिए हि पल्लं लेहिटुं वरिसणामस्स ॥ ८१ ।।
चंद्रस्य शतसहस्रं सहस्रं रवेः शतं च शुक्रस्य । वर्षाधिकं हि पल्यं लघिष्ठं वर्षनाम्नः॥ ८१ ॥