SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २३२ . मूलाचारे शेषाणां संदृष्टिः २३ । २४ । २५ । २६ । २७ । २८ । २९ । ३० । ३१ । ३२ । ३३ । वेदितव्येति ॥ ७८॥ - सौधर्मादिदेवीनां परमायुषः प्रमाणं प्रतिपादयन्नाह;पंचादी वेहिं जुदा सत्तावीसा य पल्ल देवीणं । तत्तो सत्तुत्तरिया जावदु अरणप्पयं कप्पं ॥ ७९ ॥ पंचादीनि द्वाभ्यां युतानि सप्तविंशतिः पल्यानि देवानां । ततः सप्तोत्तराणि यावत् आरणाच्युतं कल्पः ॥ ७९ ॥ टीका-पंचादी-पंच आदि पंचपल्योपमानि मूलं, वेहिं जुदा-दाभ्यां युक्तानि द्वाभ्यां द्वाभ्यामधिकानि वीप्सार्थो द्रष्टव्यः उत्तरोत्तरग्रहणात् । सत्ता वीसा य-सप्तविंशतिः “चशब्दो यावच्छन्दं समुच्चिनोति" पल्ल-पल्यानि पल्योपमानि यावत्सप्तविंशतिः पल्योपमानि, देवीणं-देवीनां देवपत्नीनां, तत्तो ततः पल्यानां सप्तविंशतरूई सत्त-सप्तसप्त उत्तरिया-उत्तराणि सप्तसप्ताधिकानि पल्योपमानि जावदु-यावत्, अरणप्पयंकप्पं-अच्युतकल्पः तावत् । सौधर्मकल्पे देवीनां परमायुः पंचपल्योपमानि, ईशाने सप्त पल्योपमानि, सनत्कुमारे नव पल्योपमानि, माहेंद्रे एकादश पल्योपमानि, ब्रह्मकल्प त्रयोदश पल्योपमानि, ब्रह्मोत्तरे पंचदश पल्योपमानि, लांतवे सप्तदश पल्योपमानि, कापिष्ठे एंकानविंशतिः पल्योपमानि, शुक्रे एकविंशतिः पल्योपमानि, महाशुक्रे त्रयोविंशतिः पल्योपमानि, शतारे पंचविंशतिः पल्योपमानां, सहसारे सप्तविंशतिः पल्यानां, आनते चतुस्त्रिंशत्पल्योपमानि, प्राणते एकाधिक चत्वारिंशत् पल्यानां, आरणे अष्टचत्वारिंशत्पल्यानां, अच्युते पंचपंचाशत्पल्यानां सर्वत्र देवीनां परमायुषः प्रमाणमिति संबंधः । पंचपल्योपमानि द्वाभ्यां द्वाभ्यां तावदधिकानि कर्त्तव्यानि यावत्सप्तविंशतिः पल्योपमानि भवंति, ततः सप्तविंशतिः सप्तभिः सप्तभिरधिका कर्तव्या यावदच्युतकल्पे पंचपंचाशत्पल्योपमानि संजातानीति ॥ ७९ ॥ देवीनामायुषः प्रमाणस्य द्वितीयमुपदेशं प्रतिपादयन्नाह;
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy