________________
मूलाचारे
wwwmmmmmmmmmm~~~~~~~~~
टीका-अश्वगजरथनरबलवाहनानि मंत्रौषधानि च विद्याश्च प्रज्ञप्त्यादयो मृत्युभयाद्युपस्थितान्न शरणं न त्राणं न रक्षा, निकृतिर्वचना, नीतिश्चाणक्यविद्या “ स्वपक्षपरपक्षवृद्धिहानिप्रतिपादनोपायो नीतिः" । सा च सामोपप्रदानभेददंडरूपा । तत्र प्रियहितवचनमंग स्वाजन्यं च साम, नानाद्रव्यप्रदानमुपप्रदानं, त्रासनभर्त्सनादिर्भेदः, ताडनं छेदनं दंडः, निजा बांधवा भ्रात्रादयश्चैवमादीनि मृत्युभये सत्युपस्थिते शरणं न भवंतीति चिन्तनीयमिति ॥ ५॥
तथा;जम्मजरामरणसमाहिदह्मि सरणं ण विज्जदे लोए । जरमरणमहारिउवारणं तु जिणसासणं मुच्चा ॥ ६ ॥
जन्मजरामरणसमाहिते शरणं न विद्यते लोके। जरामरणमहारिपुवारणं तु जिनशासनं मुक्त्वा ॥६॥
टीका-जन्मोत्पत्तिः, जरा वृद्धत्वं, मरणं मृत्युः, एतैः समाहिते संयुक्ते सुष्ठु संकलिते शरणं रक्षा न विद्यते लोकेऽस्मिञ्जगति, जरामरणमहारिपुवारणं, जिनशासनं मुक्त्वाऽन्यच्छरणं न विद्यते लोके इति संबंधः ॥ ६ ॥
तथा;मरणभयसि उवगदे देवा वि सइंदया ण तारंति । धम्मो ताणं सरणं गदित्ति चिंतहि सरणतं ॥ ७ ॥
मरणभये उपगते देवा अपि सेंद्रा न तारयति । धर्मस्त्राणं शरणं गतिरिति चिंतयाशरणत्वं ॥ ७ ॥ टीका-मरणभय उपगत उपस्थिते देवा अपि सेन्द्रा देवेन्द्रसहिताः सुरासुराः न तारयन्ति न त्रायन्ते तस्माद्धर्मो जिनवराख्यातस्त्राणं रक्षणं शरणमाश्रयो गतिश्चेति भावय चिंतयाशरणत्वं, यस्मान्न कश्चिदन्य आश्रयः, धर्मो पुनः शरणं रक्षकोऽगतिकानां गतिरिति कृत्वा धर्म शरणं जानीहीति ॥ ७ ॥