SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ पर्यास्यधिकारः। टीका-सुक्कमहासुक्केसु य-शुक्रमहाशुक्रयोश्च, सदारकप्पे-शतारकल्पे, तहा-तथा, सहस्सारे-सहस्रारे च, कप्पे-कल्पे, एतेसु-एतेषु, सुरासुरा, देवाः, बोधव्वा-बोद्धव्याः, सद्दपडिचारा-शब्दप्रतीचाराः, शब्बे शब्देन वा प्रतीचारो येषां ते शब्दप्रतीचाराः । एतेषु शुक्रमहाशुक्रशतारसहस्रारकल्पेषु ये देवा देव्योऽपि च ते शब्दप्रतीचाराः, देववनितानां मधुरसंगीतमृदुललितकथितभूषणारवश्रवणमात्रादेवपरांप्रीतिमास्कंदंतीति॥१०॥ मनः प्रवीचारान् प्रतिपादयन्नाहः,आणदप्राणदकप्पे आरणकप्पे य अच्चुदे य तहा। मणपडिचारा णियमा एदेसु य होंति जे देवा ॥१०१॥ आनतप्राणतकल्पयोः आरणाकल्पे चाच्युते य तथा । मनः प्रतीचारा नियमादेतेषु च भवंति ये देवाः ॥१०१॥ टीका-आणदपाणदकप्पे-आनतप्राणतकल्पयोः, आरणकप्पेआरणकल्पे, अच्चुदे य तहा-अच्युते च तथैव देव्योऽपि, मणपडिचारामनः प्रतीचाराः, णियमा-नियमान्निश्चयेन एदेसु य-एतेषु च, होतिभवंति, जे देवा-ये देवाः । एतयो आनतप्राणतकल्पयोरारणाच्युतकल्पयोर्देवा मनः प्रतीचारा मानसिककामाभिलाषप्राप्तसुखाः स्वांगनामनःसंकल्पमात्रादेव परमसुखमवाप्नुवंतीति ॥ १०१॥ .. ___ अथोत्तरेषां किंप्रकारं सुखमित्युक्ते तंन्निश्चयार्थमाह; तत्तो परं तु णियमा देवा खलु होति णिप्पडीचारा। सप्पडिचारेहिं वि ते अणंतगुणसोक्खसंजुत्ता ॥१०२॥ ततः परतो नियमात् देवाः खलु भवति निःप्रतीचाराः। सप्रतिचारेभ्योपि ते अनंतगुणसौख्यसंयुक्ताः ॥ १०२॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy