________________
२५.
मूलाचारे
. टीका-तत्तो-ततस्तेभ्यो भवनाद्यच्युतांतेभ्यः, परं तु-परत ऊर्द्ध, णियमा-नियमान्निश्चयादसंदेहात् देवा-अहमिंद्रादयः, खलु स्फुटं व्यक्तमेतत्प्रत्यक्षज्ञानिदृष्टमतत्, होंति-भवंति, णिप्पडीचारा-निष्प्रतीचारा प्रतीचारनिर्गता निष्प्रतीचाराः कामाग्निदाहविनिर्मुक्ताः । वनिता विषयपंचेंद्रियसुखरहिताः। यद्येवं किं तेषां सुखमित्याशंकायामाह,-सप्पडिचारेहिं वि-सप्रतीचारेभ्योऽपि कायस्पर्शरूपशब्दमन:प्रवीचारेभ्योऽपि ते नवप्रवेयकादिकेऽहमिंद्राः, अणंतगुणसोक्खसंजुत्ता-अनंतगुणसौख्ययुक्ता । अनंतो गुणो गुणकारो यस्य तदनंतगुणं अनंतगुणं च तत्सोख्यं चानंतगुणसौख्यं स्वायत्तसर्वप्रदेशानंदप्रीणनं तेन संयुक्ताः सहिताःतेभ्यो भवनायच्युतांतभ्यः परेषु नवग्रैवेयकनवानुत्तरेषु ये देवास्ते निश्चयेनाप्रतीचाराः सप्रतीचारेभ्योऽनंतगुणसंयुक्ताः, व्यक्तमेतत् प्रतीचारो हि वेदनाप्रतीकारस्तदभावे तेषां परमसुखमनवरतमिति ॥ १०२॥
कुतो यतः,जं च कामसुहं लोए जं च दिव्वं महासुहं। वीतरागसुहस्सेदे णंतभागंपि नग्धंदि ॥ १०३ ॥ .
यच्च कामसुखं लोके यच्च दिव्यं महासुखं । - वीतरागसुखस्यैते अनंतभागमपि नाहति ॥ १०३॥
टीका-जं च-यच्च, कामसुहं-कामसुखं विषयोत्थजीवप्रदेशालादकारणं मनुष्यादिभवं लोए लेके तिर्यगू_धोभागेषु, जं च दिव्व महासुहं-दिवि भवं दिव्यं दिव्यं च तन्महासुखं च दिव्यमहासुखं भवनाद्यच्युतांतदेवोत्थं, वीदरागसुहस्स-वीतरागसुखस्य निर्मूलितमोहनीयादिकर्मकलंकस्य, एदे एतानि तिर्यङमनुष्यदेवजनितानि सुखानि, णंतभागांप-अनंतभागस्यापि वीतरागसुखस्यानंतराशिना भागे कृते यल्लब्धं नम्यानंतभागस्यापि णग्घति नार्घन्ति नार्हति सदृशानि न तानि तस्य मूल्यं