________________
२४८
मूलाचार
स्फुटं भवंति कायप्रतीचाराः संक्लिष्टकर्मकलंकत्वान्मनुष्यवस्त्रीसुखमनुभवंतीति । अवधिग्रहणादितरेषां सुखविभागे प्रतिज्ञाते तत्प्रतिज्ञानायाहफासपडिचारा-स्पर्शप्रतीचाराः स्पर्शे स्पर्शनेन वा प्रतीचारो विषयसुखानुभवनं येषां ते स्पर्शप्रतीचाराः, पुण–पुनरन्येन प्रकारेण सणकुमारे यसनत्कुमारे च कल्पे, माहिंदे-माहेंद्रे कल्पे देवा इत्यनुवर्तते । सनत्कुमारे कल्पे माहेंद्रे कल्पे च ये देवास्ते स्पर्शप्रतीचाराः-देवांगनास्पर्शमात्रकामकृतप्रीतिसुखमुपलभंते तथा देव्योऽपीति ॥ ९८॥
तथा शेषाणां सुखप्रतिपादनार्थमाह;वंभे कप्पे वंभुत्तरे य तह लंतवे य कापिहे। एदेसु य जे देवा वोधधा रूवपडिचारा ॥ ९९ ॥
ब्रह्मे कल्पे ब्रह्मोत्तरे च तथा लांतवे च कापिष्ठे। एतेषु च ये देवा बोद्धव्या रूपप्रतीचाराः ॥ ९९ ॥ . . . टीका-बंभे कप्पे-ब्रह्मकल्पे, बंभुत्तरे य-ब्रह्मोत्तरे च कल्पे, तहतथा, लंतवे य-लांतवकल्पे, काविटे-कापिष्ठकल्पे एदेसुय एतेषु च कल्पेषु चान्येषु तत्प्रतिबद्धेषु, जे देवा-ये देवाः, बोधव्वा-बोद्धव्याः ज्ञातव्याः, रूवपडिचारा-रूपे रूपेण वा प्रतीचारो येषां ते रूपप्रतीचाराः । ब्रह्मब्रह्मोत्तरलांववकापिष्ठेषु कल्पेषु ये देवास्ते रूपप्रतीचाराः दिव्यांगनानां शृंगारचतुरमनोज्ञवेषरूपालोकनमात्रादेव परं सुखं प्राप्नुवंति देव्योऽपि चेति ॥ ९९ ॥
शब्दप्रतीचारान् प्रतिपादयन्नाह,सुकमहासुक्केसु य सदारकप्पे तहा सहस्सारे । कप्पे एदेसु सुरा बोधव्वा सद्दपडिचारा ॥ १०॥
शुक्रमहाशुक्रयोश्च शतारकल्पे तथा सहस्रारे । कल्पे एतेषु सुरा बोव्याः शब्दप्रतीचाराः ॥ १०॥ ५ प्रवीचार ख-ग।