SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ पर्याप्त्यधिकारः। २४७ .. टीका-कामा-कामः स्त्रीपुंनपुंसकवेदोदयकृततद्विषयाभिलाषस्तस्य कारणात्वात्कामौ कारणे कार्योपचारात्, दुवे-दौ, तओ-त्रयः, भोगभोगाः, इंदियत्था-इंद्रियार्था इन्द्रियविषयाः स्पर्शरसरूपगंधशब्दाः । अथवेंद्रियाणि स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि तद्विषयाश्च, विदूहिंविद्वद्भिः प्रत्यक्षदर्शिभिः पण्णत्ता-प्रज्ञप्ताः कथिताः दृष्टा वा । कामोकामौ, रसोये-रसश्च, फासो-स्पर्शश्च, सेसा-शेषाः गंधरूपशब्दाः भोगेत्ति-भोगा इति, आहिता-आहिताः प्रतिपादिताः ज्ञाता वा । स्पर्शनेंद्रियप्रवृत्तिकारणत्वात् रूपशब्दौ भोगौ रसनेंद्रियस्य प्रवृत्तिहेतोः स्पर्शनेंद्रियस्य च घाणं भोगोऽत: यत एवं कामौ रसस्पर्शी गंधरूपशब्दा भोगाः कथिताः, अत इंद्रियार्थाः सर्वेपि कामौ भोगाश्च विद्वद्भिः प्रज्ञप्ता इति ॥ ९७ ॥ इंद्रियैर्वेदनाप्रतिकारसुखं देवानामाह;आईसाणा कप्पा देवा खलु होंति कायपडिचारा । फासप्पडिचारा पुण सणक्कुमारे य माहिंदे ॥ ९८॥ आ ईशानात् कल्पात् देवाः खलु भवंति कायप्रतीचाराः। . स्पर्शप्रतीचाराः पुनः सनत्कुमारे च माहेन्द्रे ॥ ९८॥ . . टीका-आङयमभिविधौ द्रष्टव्यः असंहिततैया निर्देशोऽसंदेहार्थः तिर्यजनुष्यभवनवासिव्यंतरज्योतिःसौधर्माणां ग्रहणं लब्धं भवति, ईसाणा-ईशानात्, कप्पा-कल्पाः, देवा-देवाः, खलु-स्फुटं, होंति-भवंति, कायपडिचारा-कायप्रतीचाराः “ प्रतीचारो मैथूनोपसेवनं वेदोदयकृतपीडाप्रतीकारः " काये कायेन वा प्रतीचारो येषां ते कायप्रतीचारास्तिर्यङ्मनुष्या भवनवासिवानव्यंतरज्योतिष्कासौधर्मेशाना देवा देव्यश्च - १ 'घ्राणं, श्रोत्रं, चक्षुश्च' इति प्रेस-पुस्तके पाठ। २ 'असंनिहिततयां' इति प्रेसपुस्तके । संहिता सन्धि । सौधर्माणा... खलु सवनं व
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy