SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २४६ मूलाचारे तियङ्मनुष्याणां लेश्याभेदमाह;एइंदियवियलिंदियअसण्णिणो होति असुहाओ . संखादीदाउणं तिण्णि सुहा छप्पि सेसाणं ॥ ९६ ॥ • एकेंद्रियविकलेंद्रियासज्ञिनां तिस्रो भवंत्यशुभा। संख्यातीतायुष्काणां तिस्रः शुभाः षडपि शेषाणां ॥ ९६ ॥ - टीका-एइंदिय-एकेंद्रियाणां पृथिवीकायिकादिवनस्पतिकायिकांतानां, वियलिंदिय-विकलेंद्रियाणा द्वीन्द्रियत्रींद्रियचतुरिंद्रियाणां, असण्णिणो-असंज्ञिनां शिक्षाऽऽलापादिग्रहणायोग्यानां पंचेंद्रियाणां, तिण्णि-तिस्रः, होति-भवंति, असुहाओ-अशुभाः कापोतनीलकृष्णलेश्याः। संखादी दाऊणां-संख्यातीतायुष्काणां भोगभूमिजानां भोगभूमिप्रतिभागजानां च तिण्णि तिस्रः शुभाः तेजः शुक्लपद्मलेश्याः, छप्पि-षडपि कापोतनीलकृष्णतेजःपद्मशुक्ललेश्याः, सेसाणं-शेषाणां कर्मभूमिजानां कर्मभूमिप्रतिभागजानां पंचेंद्रियाणां संज्ञिनां । एकद्रियविकलेंद्रियसंजिनां तिस्रोऽशुभलेश्या भवंति, भोगभूमिजानां भोगभूमिप्रतिभागजानां च तिर्यजनुष्याणां तिस्रः शुभा लेश्या भवंति, शेषाणां पुनः कर्मभूभिजानां कर्मभूमिप्रतिभागजानां च तिर्यमनुष्याणां षडपि लेश्या भवंति । अत्रापि केषांचिद्र्व्यलेश्याः स्वायुः प्रमाणावधृता । भावलेश्याः पुनः सर्वेषामंतमुहूर्तपरिवर्तिन्यः कषायाणां हानिवृद्धीभ्या तासा हानिवृद्धी वेदितव्ये इति ॥ ९६ ॥ प्रवीचारकारणेंद्रियविषयभेदे प्रतिपादयन्नाह;कामा दुवे तरु भोग इंदियत्था विदूहिँ पण्णत्ता। कामो रसो य फासो सेसा भोगेति आहीया ॥ ९७ ॥ कामौ द्वौ त्रयो भोगा इंद्रियार्था विद्वद्भिः प्रज्ञप्ताः। कामो रसश्चं स्पर्शः शेषाः भोगा इति आहिताः ॥ ९७ ॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy