________________
पर्याप्त्यधिकारः।
२४५
तेजस्तेजस्तथा तेजः पद्मा पद्मा च पद्मशुक्ला च । शुक्ला च परमशुक्ला लेश्याभेदो ज्ञातव्यः ॥ ९४॥ टीका-तेऊ तेऊ-तेजस्तेजः जघन्यतेजोलेश्या, तह-तथा, तेजतेजः मध्यमतेजोलेश्या पम्म-पद्मा जघन्यपद्मलेश्या उत्कृष्टतेजोलेश्या च, पम्मा य-पद्मा च मध्यमपद्मलेश्या, पम्मसुक्का य-पद्मशुक्ला च उत्कृष्टपद्मलेश्या जघन्यशुक्ललेश्या च, सुक्का य शुक्ला-च मध्यमशुक्ला, परमसुक्का परमशुक्ला सर्वोत्कृष्टशुक्ललेश्या, लेस्साभेदो-लेश्याभेदः, मुणेयव्वोज्ञातव्य इति ॥ ९४॥ ___ एते सप्त लेश्याभेदाः केषामित्याशंकायामाह;तिण्हं दोण्हं दोण्हं छण्हं दोण्हं च तेरसहं च। एतो य चोदसण्हं लेस्सा भवणादिदेवाणं ॥९५॥ त्रयाणां द्वयोर्द्वयोः षण्णां द्वयोश्च त्रयोदशानां च । इतश्च चतुर्दशानां लेश्या भवनादिदेवानाम् ॥ ९५ ॥ टीका-तिह-त्रयाणां त्रिषु वा, दोण्हं-द्वयोः, पुनरपि दोण्हंद्वयोः, छह-षण्णां, दोण्हं च-द्वयोश्च, तेरसण्हं च-त्रयोदशानां त्रयोदशसु वा, एत्तो य-इतश्चोपरि चोदसण्हं चतुर्दशानां चतुर्दशसु वा लेस्सा-लेश्याः पूर्वोक्ताः सप्त लेश्याभेदाः, भवणादिदेवाणं-भवनादिदेवानां । भवनवानव्यंतरज्योतिष्केषु त्रिषु देवानां जघन्यतेजोलेश्या, सौधेमॆशानयोदेवानां मध्यमतेजोलेश्या, सनत्कुमारमाहेंद्रयोर्देवानामुत्कृष्टतेजोलेश्या जघन्यपद्मलेश्या च, ब्रह्मब्रह्मोत्तरलांतवकापिष्ठशुक्रमहाशुकेषु षट्सु देवानां मध्यमपद्मलेश्या, शतारसहस्रारयोरुत्कृष्टपद्मलेश्या . जघन्यशक्ललेश्या च, आनतप्राणतारणाच्युतसहितेषु नवसु ग्रैवेयकेषु त्रयोदशसंख्यकेषु मध्यमशुक्ललेश्या, नवानुत्तरेषु पंचानुत्तरेषु चतुर्दशसंख्येषु परमशुक्ललेश्या, सर्वत्र देवानामिति यथासंख्येन संबंध इति ॥ ९५ ॥ .१ अत्रापि पूर्ववत्पाठेन भाव्यं केवलं कापोतस्थाने तेजोलेश्या पठनीया।