SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १३८ मूलाचारे भावात्स्वकारणाभावाद्वीजस्यानुत्पत्तिरंकुरत्वेन तत उत्पत्यभावान्निराश्रया रागद्वेषादयो दोषा नश्यंति यथा बीजमुत्पत्तिमंतरेण पश्चान्नश्यतीति ॥ ९३॥ तथा;हेदू पञ्चयभूदा हेदुविणासे विणासमुवयंति । तह्मा हेदुविणासो काययो सव्वसाहूहि ॥ ९४ ॥ हेतवः प्रत्ययभूता हेतुविनाशे विनाशमुपयांति । तस्मात् हेतुविनाशः कर्तव्यः सर्वसाधुभिः ॥ ९४ ॥ टीका-ततः क्रोधमानमायालाभाः प्रत्ययभूताः परिग्रहादयो लोभादिषु सत्सु जायते ततस्तेषां लोभादीनां हेतूनां विनाशे प्रध्वंसे विनाशमुपयांति परिग्रहादयो यत एवं ततो हेतुविनाशः कर्तव्यः सर्वसाधुभिः प्रमत्तादिक्षीणकषायांतैर्लोभादीनामभावे परिग्रहेच्छा न जायते मूर्छादिपरिग्रहस्तदभावे प्रयत्नः कार्यः । पूर्वकारिकया कारणाभावे कार्यस्याभावः प्रतिपादितोऽनया पुनः कार्यस्याभावो निगदितः। अथवा पूर्वगाथोपसंहारार्थेयं गाथा तत एवमभिसंबंधः कार्यः, हेतवः कारणानि प्रत्ययभूतानि कार्याणि हेतुविनाशे तेषां सर्वेषां विनाशो यतः कारणाभावे कार्यस्य चाभावस्ततो हेतुविनाशे यत्नः कार्य इति ॥ ९४ ॥ दृष्टांतं दार्टीतेन योजयन्नाहःजं जं जे जे जीवा पज्जायं परिणमंति संसारे । रायस्स य दोसस्स य मोहस्स वसा मुणेयव्वा ॥ ९५ ॥ यं यं ये ये जीवाः पर्यायं परिणमंति संसारे। रागस्य च दोषस्य च मोहस्य वशा ज्ञातव्याः ॥ ९५ ॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy