________________
समयसाराधिकारः ।
यतः कषायवशगोऽसंयतो भवतीति तत; -
वरं गणपdसादो विवाहस्स पवेसणं । विवाहे रागउपपत्ति गणो दोसाणमागरो ॥ ९२ ॥
वरं गणप्रवेशात् विवाहस्य प्रेवशनं ।
विवाहे रागोत्पत्तिः गणो दोषाणामाकरः ॥ ९२ ॥
१३७
टीका--यतेरंतकाले गणप्रवेशाच्छिष्यादिमोहनिबंधनकुलमोहकारणापंचपार्श्वस्थ संपर्काद्वरं श्रेष्ठं विवाहे प्रवेशनं वरं गृहप्रवेशो यतो विवाहे दारादिग्रहणे रागोत्पत्तिर्गणः पुनः सर्वदोषाणामाकरः सर्वेऽपि मिथ्यात्वासंयम कषायरागद्वेषादयो भवंतीति ॥ ९२ ॥
-
कारणाभावेन दोषाणामभाव इति प्रतिपादयन्नाह ;पच्चयभूदा दोसा पञ्चयभावेण णत्थि उप्पत्ती । पञ्चभावे दोसा णस्संति णिरासया जहा बीयं ॥ ९३ ॥
प्रत्ययभूता दोषा : प्रत्ययाभावेन नास्ति उत्पत्तिः । प्रत्ययाभावात् दोषा नश्यंति निराश्रया यथा बीजं ॥ ९३ ॥
टीका - प्रत्ययात्कर्मबंधात् शिष्यादि मोहनिबंधनकुलमोहकारणाद्भूताः संजाता दोषा रागद्वेषादयः कलुषजीवपरिणामाः, प्रत्ययाभावाच्च रागद्वेषादिकारणभूतकर्माभावाच्च नास्त्युत्पत्तिर्नैव प्रादुर्भावस्तेषां दोषाणां यतश्वोत्पत्तिर्नास्ति ततः प्रत्ययाभावात्कारणाभावाद्दोषा मिथ्यात्वासंयमकषाययोग निर्वर्त्तित जीव परिणामा नश्यंति निर्मूलं क्षयमुपवजंति निराश्रयाः संतः स्वकीयप्रादुर्भाव कारणमंतरेण, यथा प्रत्ययाभावाद्बीजमंकुरं न जनयति बीजस्यांकुरोत्पत्तिनिमित्तं क्षितिजलपवनादित्यरश्मयस्तेषामभावे विपरीते पतितं बीजं यथा नश्यति । येषां कारणानां सद्भावे ये दोषा उत्पयंते तेषां कारणानामभावे तत्फलभूतदोषाणामनुत्पत्तिर्यथा स्वप्रत्यया