SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १३६ मूलाचारे जीवपर्यायान् प्रतिपादयन्नाह;संखेज्जमसंखेजमणंतकप्पं च केवलं णाणं । तह रायदोसमोहा अण्णे वि य जीवपज्जाया ॥९॥ संख्येयमसंख्ययमनंतकल्पं च केवलं ज्ञानं । तथा रागद्वेषमोहा अन्योप च जीवपर्यायाः ॥ ९ ॥ टीका-संख्यातविषयत्वात्संख्यातं मतिज्ञानं श्रुतज्ञानं च तथाऽसंख्यातविषयत्वादसंख्यातमवधिज्ञानं मन:पर्ययज्ञानं चानंतविषयत्वादनं तकल्पं केवलज्ञानमथवा संख्यातासंख्यातानंतवस्तुपरिच्छेदकत्वात्संख्यातासंख्यातानंतकल्पं केवलज्ञानमनंतविकल्पं चैते सर्वे पर्यायास्तथा रागद्वेषमोहपर्यायास्तथाऽन्येपि जीवस्य पर्याया नारकत्वादयो बालयुवस्थविरत्वादयश्चेति ॥ ९॥ तथैवाह;--- अकसायं तु चरित्तं कसायवसिओ असंजदो होदि । उवसमदि जह्मि काले तक्काले संजदो होदि ॥ ९१ ॥ अकषायं तु चरित्रं कषायवशगः असंयतो भवति । उपशाम्यति यस्मिन् काले तत्काले संयतो भवति ॥९१॥ टीका-चारित्रं नामाकषायत्वं यतः कषायवशगोऽसंयतः, मिथ्यात्वकषायादियुक्तो न संयतः स्यात् यस्मिन् काले उपशाम्यति व्रतस्थः सन् कषायान करोति तस्मिन् काले संयतश्चारित्रस्थो भवति। यस्मात्स एव पुरुषो मिथ्यात्वादियुक्तो मिथ्यादृष्टिरसंयतः सम्यक्त्वादियुक्तः सन् स एव पुनः सम्यग्दृष्टि: संयतश्च । पुरुषत्वसामान्येन पुनरभेदस्तस्मात्सर्वोऽपि भेदाभेदात्मक इति ॥ ९१ ॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy