________________
समयसाराधिकारः ।
१३५
दृष्टांतं दातेन योजयन्नाह ;
एवं तु जीवदव्वं अणाइणिहणं विसेसियं णियमा । रायसरिसो दु केवलपज्जाओ तस्स दु विसेसो ॥ ८८ ॥
एवं तु जीवद्रव्यं अनादिनिधनं विशेष्यं नियमात् । राजसदृशस्तु केवलं पर्यायस्तस्य तु विशेषः ॥ ८८ ॥
टीका- यथा जन्मशब्दो राज्ययुक्तकाले राज्याभावकाले च, एवमेव जीवद्रव्यमनादिनिधनं सर्वकालमवस्थितं विशेष्यमनेकप्रकाराधारतया निर्दिष्टं केवलं तु तस्य पर्यायो नारकादिमनुष्यादिरूपो राज्यपर्यायः स दृष्टो विशेषो विशेषणं न सर्वथा भेदं करोति सर्वास्ववस्थासु तइति ॥ ८८ ॥
द्रव्यार्थिकनयापेक्षयैकत्वं प्रतिपाय पर्यायार्थिकनयापेक्षया भेदं प्रतिपादयन्नाह ;
जीवो अणाइणिहणो जीवोत्ति यणियमदो ण वत्तव्वो । जं पुरिसाउगजीवो देवाउगजीविदविसिट्ठो ॥ ८९ ॥
जीवः अनादिनिधनो जीव इति च नियमतो न वक्तव्यः । यत् पुरुषायुष्कजीवो देवायुष्कजीवितविशिष्टः ॥ ८९ ॥
टीका - जीवोऽनादिनिधन आदिवर्जितो निधनवर्जितश्च जीव इति च निश्चयेन सर्वथा गुणादिरूपेणापि नियमतो न वक्तव्यो न वाच्यो यतः पुरुषायुष्को जीवो देवायुष्काद्विशिष्टो न हि य एव देवः स एव मनुष्यः, यच मनुष्यो नासौ तिर्यक्, यश्च तिर्यक् नासौ नारकः पर्यायभेदेन भेदादिति ॥ ८९ ॥