________________
मूलाचारे
टीका - मोहाग्निना महता दह्यमानं महाजगत् सर्वलोकं धीरा विषयविरक्ता ध्यायंत्यनंतसंसारं चतुर्गतिभ्रमणोपेतमिति ॥ ८५ ॥
१३४
ध्यानं नाम तपस्तदारंभं न सहत इति प्रतिपादयन्नाह; - आरंभं च कसायं च ण सहदि तवो तहा लोए । अच्छी लवणसमुद्दो य कयारं खलु जहा दिट्टं ॥ ८६ ॥
आरंभं च कषायान् च न सहते तपस्तथा लोके ।
अक्षि लवणसमुद्रश्च कचारं खलु यथा दृष्टम् ॥ ८६ ॥
टीका- यथाऽक्षि चक्षुर्लवणसमुद्रश्च कचारं तृणादिकमंतस्थं पतितं न सहते स्फुटं तटस्थं करोतीति दृष्टं तथा तपश्चारित्रमारंभं परिग्रहोपार्जनं कषायाँश्च न सहते न क्षमते बहिष्करोतीति ॥ ८६ ॥
पंच परिवर्त्तनानि जीवेन किं तेनैवाहोस्विदन्येन तेनैव नान्येन कथमित्याशंकायामाह;जह कोइ सट्टिवरिसो तीसदिवरिसे णराहिवो जाओ । उभयत्थ जम्मसद्दो वासविभागं विसेसेइ ॥ ८७ ॥
यथा कश्चित् षष्टिवर्षः त्रिंशद्वर्षे नराधिपो जातः । उभयत्र जन्मशब्दो वर्षविभागं विशेषयति ॥ ८७ ॥
टीका – यथा कश्चित्पुरुषः षष्टिवर्षः षष्टिसंवत्सरप्रमाणायुस्त्रिंशद्भिर्वषर्गतैर्नराधिपः संजातोः राजाऽभूदत उभयत्र पर्याये राज्यपर्याये तदभावे च जन्मशब्दो वर्षविभागं संवत्सरक्रमं विशेषयति राज्यपर्याये तदभावपर्याये च वर्त्तते न तत्र सर्वथा भेदं करोति सामान्यविशेषात्मकत्वात्सर्वपदार्थानां यतः सर्वथा नित्यक्षणिके चार्थक्रियाया अभावादर्थक्रियायाश्वाभावे सर्वेषामभावः स्यादभावस्य च न ग्राहकः प्रमाणाभावादिति ॥ ८७ ॥
१ च ग्राहकप्रमाणाभावात् ख ग पुस्तके |