SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ समयसाराधिकारः । कर्मणो बधमोक्षौ जीवाजीवौ च द्रव्यपर्यायान् । संसारशरीराणि च भोगविरक्तः सदा ध्याय ।। ८३ ॥ . टीका-कर्मणो ज्ञानावरणादेर्बधं जीवकर्मप्रदेशसंश्लेषं तथा मोक्षं सर्वथा कर्मापायं तथा जीवान् द्रव्यभावप्राणधारणसमर्थानजीवान् पुद्गलधर्माधर्माकाशकालान् द्रव्याण सामान्यरूपाणि पर्यायान् विशेषरूपान् संसारं चतुर्गतिभ्रमणं शरीराणि चौदारिकवक्रियिकाहारकतैजसकार्मणानि च भोगविरक्तो रागकारणेभ्यो विरक्तः सन् सदा सर्वकालं ध्याय सम्यग्भावयेति ॥८॥ संसारविकल्पं भावयन्नाह;दवे खेत्ते काले भावे य भवे य हति पंचेव । परिवदृणाणि बहूसो अणादिकाले य चिंतेज्जो ॥८४॥ द्रव्यं क्षेत्र कालो भावश्च भवश्च भवंति पंचैव। परिवर्तनानि बहुशः अनादिकाले च चिंतयेत् ॥ ८४ ॥ टीका-द्रव्यपरिवर्तनानि कर्मनोकर्मतत्स्वरूपग्रहणपरित्यजनानि, क्षेत्रपरिवर्त्तनानि सर्वप्रदेशेषूत्पत्तिमरणानि, कालपरिवर्त्तनानि उत्सर्पिण्यवसर्पिणीसमयेषूत्पत्तिमरणानि, भावपरिवर्त्तनानि जघन्यमध्यमोत्कृष्टबंधस्थितिबंधरूपाणि, भवपरिवर्त्तनानि सर्वायुर्विकल्पेषूत्पत्तिमरणानि, एवं पंचपरिवर्त्तनानि अनादिकालेऽतीतकाले परिवर्त्तितानि बहुशोऽनेकवारमनेन जीवेनेत्थं चिंतयेत् ध्यायेदिति ॥ ८४ ॥ . तथैतदपि ध्यायेदित्याह;मोहग्गिणा महंतेण दज्झमाणे महाजगे धीरा । समणा विसयविरत्ता झायंति अणंतसंसारं ॥ ८५ ॥ मोहाग्निना महता दह्यमानं महाजगत् धीराः। श्रमणा विषयविरक्ता ध्यायंति अनंतसंसारं ॥ ८५॥ .
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy