________________
१३२
__ मूलाचारे
पति
।
समर्थस्तथापि शाट्यरहितः स्वाध्यायं यदि निरंतरं करोति तथापि कर्मक्षयं करोतीति भावः ॥ ८०॥
चारित्रस्य प्रधानमंगं ध्यानं तदुपकारभूतं निद्राजयमाह;णि जिणेहि णिचं णिद्दा खलु नरमचेदणं कुणदि। वढेज हू पसुत्तो समणो सम्वेसु दोसेसु ॥ ८१॥ निद्रां जय नित्यं निद्रा खलु नरमचेतनं करोति। वर्तेत हि प्रसुप्तः श्रमणः सर्वेषु दोषेषु ॥ ८१ ॥ टीका-निद्रां दर्शनावरणकर्मोदयमोहभावं जय तस्या वशं मा गच्छ यतः सा निद्रा नरं खलु स्फुटमचेतनं पूर्वापरविवेकहीनं करोति यतश्च प्रसुप्तः श्रमणो वर्तेत सर्वेषु दोषेषु यस्मान्निद्रयाक्रांतचित्तः सर्वैरपि प्रमादैः सहितो भवति संयतोऽप्यतो निद्राजयं कुर्विति ।। ८१ ।।
निद्रां जित्त्वैकाग्रचिंतानिरोधं कुर्वीतेति प्रतिपादयन्नाह;--- जह उसुगारो उसुमुज्जु वरई संपिडियेहिं णयणेहिं । तह साहू भावेज्जो चित्तं एयग्गभावेण ॥ ८२ ।।
यथा इषुकार इषु ऋजु करात संपिंडिताभ्यां नयनाभ्यां। . तथा साधुः भावयेत् चित्तं एकाग्रभावेन ॥ ८२ ॥ टीका-यथेषुकारः कांडकार इषु कांड, उजु वरई-ऋजु करोति प्रगुणं करोति सम्याडिताभ्यां संमीलिताभ्यां नयनाभ्यां निरुद्धचक्षुरादिप्रसरेण तथा साधुः शुभध्यानार्थ स्वचित्तं मनोव्यापारमेकाग्रभावेन मनोवाक्कायस्थैर्यवृत्त्या पंचेंद्रियनिरोधेन च भावयेदभिरमयेदिति ॥ ८२ ॥
ध्यानं प्रपंचयन्नाह;कम्मरस बंधमोक्खो जीवाजीवे य दवपन्जाए। संसारसरीराणि य भोगविरत्तो सया झाहि ॥८३॥