________________
समयसाराधिकारः।
१३१
स्वाध्यायं कुर्वन् पंचेंद्रियसंवृतः त्रिगुप्तश्च । भवति च एकाग्रमना विनयेन समाहितो भिक्षुः ॥ ७८॥ टीका-यतः स्वाध्यायं शोभनशास्त्राभ्यासवाचनादिकं कुर्वन् पंचेंद्रियसंवृतस्त्रिगुप्तश्च भवति, एकाग्रमना ध्यानपरश्च भवति, विनयेन समाहितश्च दर्शनादिविनयोपेतश्च भिक्षुर्भवत्यत: प्रधानं चारित्रं स्वाध्यायस्ततश्च मुक्तिरिति ॥ ७८॥
पुनरपि स्वाध्यायस्य माहात्म्यं तपस्यंतर्भावं च प्रतिपादयन्नाह;बारसविधह्मि य तवे सन्भंतरबाहिरे कुसलदिवें। ण वि अत्थि ण वि य होहदि सज्झायसमंतवोकम्मं ॥७९॥ द्वादशविधे च तपसि साभ्यंतरबाह्ये कुशलदृष्टे । नापि अस्ति नापि च भविष्यति स्वाध्यायसमं तपःकर्म ॥७९॥ टीका-द्वादशविधे तपसि साभ्यंतरबाह्ये कुशलदृष्टे तीर्थकरगणधरादिप्रदर्शिते कृते च नैवास्ति न चापि भविष्यति स्वाध्यायसमं स्वाध्यायसदृशं अन्यत्तपःकर्मातः स्वाध्यायः परमं तप इति कृत्वा निरंतरं भावनीय इति ॥७९॥ . स्वाध्यायभावनया श्रुतभावना स्यात्तस्याश्च भावनायाः फलं प्रदर्शयन्नाह;सूई जहा ससुत्ता ण णस्सदि दुपमाददोसेण । एवं ससुत्तपुरिसो ण णस्सदि तहा पमाददोसेण ॥८॥
सूची यथा ससूत्रा न नश्यति तु प्रमाददोषेण। एवं ससूत्रपुरुषो न नश्यति तथा प्रमाददोषेण ॥ ८०॥ टीका-यथा सूची लोहमयी शलाका सूक्ष्मापि ससूत्रा सूत्रमयरज्जुसमन्विता न नश्यति न चक्षुर्गोचरतामतिकामति प्रमाददोषेणापि, अपस्कारादिमध्ये विस्मृतापि । तथैवं पुरुषोऽपि साधुरिति संसूत्रः श्रुतज्ञानसमन्वितो न नश्यति नैव संसारगर्त पतति प्रमाददोषेणापि यद्यपि परमं तपः कर्तुं .