________________
मूलाचारे
कर्मणः परिणामो न तु जीवस्यति प्रतिपादयन्नाह;-- जीवपरिणामहेदू कम्मत्तण पोग्गला परिणमंति। . ण दुणाणपरिणदो पुण जीवो कम्मं समादियदि ॥७६॥
जीवपरिणामहेतवः कर्मत्वेन पुद्गलाः परिणमंति । न तु ज्ञानपरिणतः पुनः जीवः कर्म समादत्ते ॥ ७६ ॥ , टीका-जीवस्य परिणामहेतवो बालवृद्धयुवत्त्वभावेन नरकतिर्यङ्मनुष्यदेवत्वभावेन च कर्मत्वेन कर्मस्वरूपेण पुद्गला रूपरसगंधस्पर्शवंतः परमाणवः परिणमंति पर्यायं गृह्णति । जीवः पुनर्ज्ञानपरिणतो नैव कर्म समादत्ते नैव कर्मभावेन पुद्गलान् गृह्णातीति । यतोऽतश्चारित्रं ज्ञानदर्शनपूर्वक भावनीयमिति ॥ ७६ ॥ यस्मात्;णाणविण्णाणसंपण्णो झाणज्झणतवेदो। कसायगारवुम्मुक्को संसारं तरदे लहुं ॥ ७७ ॥ ज्ञानविज्ञानसंपन्नो ध्यानाध्ययनतपोयुतः । कषायगौरवोन्मुक्तः संसारं तरति लघु ॥ ७७ ॥
टीका-ज्ञानं यथावस्थितवस्तुपरिच्छेदकं विज्ञानं चारित्रं ताभ्यां ज्ञानविशेषेण वा संपन्नः परिणतः ध्यानेनैकाग्रचिंतानिरोधेनाध्ययनेन वाचनाप्रच्छनादिक्रियया तपसा च द्वादशप्रकारेण युक्तः परिणतः कषायगौरवोन्मुक्तश्च लघु शीघ्रं संसार भवसमुद्रं तरति समुल्लघंयतीति ततो रत्नत्रयं सारभूतमिति ॥ ७७ ॥
ननु स्वाध्यायभावनया कथं संसारस्तीर्यत इत्याशंकायामाह;सज्झायं कुव्वंत्तो पंचिंदियसंपुडो तिगुत्तो य । हवदिय एयग्गमणो विणएण समाहिओ भिक्खू ॥७८॥