________________
समयसाराधिकारः।
१२९
बहुकालश्रमणोऽहमिति च मा गर्व कृथा यतः;मा होह वासगणणा ण तत्थ वासाणि परिगणिज्जति। बहवो तिरत्तवुत्था सिद्धा धीरा विरग्गपरा समणा ७४
मा भवतु वर्षगणना न तत्र वर्षाणि परिगण्यते । बहवः त्रिरात्रोत्थाः सिद्धा धीरा वैराग्यपराः श्रमणाः॥ ७४ ॥
टीका-मा भवतु वर्षगणना मम प्रव्रजितस्य बहूनि वर्षाणि यतोऽयं लघुरद्य प्रवजित इत्येवं गर्व मा कृवं, यतो न तत्र मुक्तिकारणे. वर्षाणि गण्यंते । बहुकालश्रामण्यन मुक्तिर्भवति नैवं परिज्ञायते यस्माद्बहवस्त्रिरात्रिमात्रोषितचारित्रा अन्तर्मुहूर्तवृत्तचरित्राश्च वैराग्यपरा धीराः सम्यग्दर्शनादौ निष्कंपाः श्रमणाः सिद्धा निर्मूलिताशेषकर्माण इति ॥ ७४ ॥
बंधं बंधकारणं च प्रतिपादयन्नाह;जोगणिमित्तं गहणं जोगो मणवयणकायसंभूदो । भावणिमित्तो बंधो भावो रदिरागदोसमोहजुदो ॥७५॥
योगनिमित्तं ग्रहणं योगो मनोवचनकायसंभूतः। भावनिमित्तो बंधो भावो रतिरागद्वेषमोहयुतः ॥ ५ ॥ टीका-कर्मणो ग्रहणं योगनिमित्तं योगहेतुकं, योगः प्रकृतिबंधं प्रदेशबंधं च करोतीति । अथ को योग इत्याशंकायामाह;-योगश्च मनोवचनकायेभ्यः संभूतो मनःप्रदेशपरिस्पंदो वाक्प्रदेशपरिस्पंदः कायप्रदेशपरिस्पंदः “ मनोवाक्कायकर्म योग " इति वचनात् । भावनिमित्तो भावहेतुको बंधः संश्लेषः स्थित्यनुभागरूपः “ स्थित्यनुभागौ कषायत" इति वचनात् । अथ को भाव इति प्रश्ने भावो रतिरागद्वेषमोहयुक्तो मिथ्यात्वासंयमकषाया इत्यर्थ इति ॥ ७५ ॥