SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १२८ . . . मूलाचारे NAMANNAAN भेतव्य नित्यं दुर्जनवचनात् प्रलोटजिव्हातः । . वरनगरनिर्गमादिव वचनकचवरं वहतः॥ ७१ ॥ टीका-दुर्जनवचनात्, किंविशिष्टात् ? प्रलोटजिह्वात् पूर्वापरतामनपक्ष्य वाचिनो वरनगरनिर्गमादिव वचनकचबरं वहतः नित्यं भेतव्यं न तत्समीपे स्थातव्यमिति ॥ ७१ ॥ . तथेत्थंभूतोऽपि यस्तस्मादपि भेतव्यमिति दर्शयन्नाह;आयरियत्तणमुवणायइ जो मुणि आगमं ण याणतो॥ अप्पाणं पि विणासिय अण्णे वि पुणो विणासेई॥७२॥ आचार्यत्वमुपनयति यो मुनिरागमं न जानन् । आत्मानमपि विनाश्य अन्यानपि पुनः विनाशयति ॥ ७२ ॥ टीका-आचार्यत्वमात्मानमुपनयति य आगनमजानन् आत्मानं विनाश्य परमपि विनाशयति । आगमेन विनाचरन्नात्मानं नरकादिषु गमयति तथा परान् कुत्सितोपदेशेन भावयन् तान्नरकादिषु प्रवेशयतीति ततस्तस्मादपि भेतव्यमिति ॥ ७२ ॥ ___ अभ्यंतरयोगैर्विना बाह्ययोगानामफलत्वं दर्शयन्नाह;घोडयलदिसमाणस्स बाहिर बगणिहुदकरणचरणस्स । अभंतरम्हि कुहिदस्स तस्स दु किं बज्झनोगेहि ॥७३॥ घोटकलांदिसमानस्य बाह्येन बकनिभृतकरणचरणस्य । अभ्यंतरे कुथितस्य तस्य तु किं बाह्ययोगैः ॥ ७३ ॥ टीका-घोटकव्युत्सर्गसमानस्यांतः कुथितस्य बाह्येन बकस्येव निभृतकरचरणस्य तस्येत्थंभूतस्य मूलगुणरहितस्य किं बायैवृक्षमूलादिभिर्योगैर्न किंचिदपीत्यर्थस्तस्माच्चारित्रे यत्नः कार्य इति ॥ ७३ ॥ १ आत्मन उपनयति ख-ग-पुस्तके ।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy