________________
समयसाराधिकारः ।
टीका-यं यं पर्यायविशेषं नारकत्वादिस्वरूपं परिणमंति गृह्णति जीवाः संसारे ते पर्यायास्ते च जीवा रागस्य द्वेषस्य मोहस्य च । वशास्तदायत्ताः परिणमंतीति ज्ञातव्याः कर्मायत्तत्वात्सर्वसांसारिकपर्यायाणामिति ॥ ९५ ॥
रागद्वेषफलं प्रतिपादयन्नाह;अत्थस्स जीवियस्स य जिब्भोवत्थाण कारणं जीवो। मरदि य मारावेदि य अणंतसो सव्वकालं तु ॥ ९६ ॥
अर्थस्य जीवितस्य च जिह्वोपस्थयोः कारणं जीवः । म्रियते च मारयति च अनंतशः सर्वकालं ॥९६॥ टीका-अर्थस्य कारणं गृहपशुवस्त्रादिनिमित्तं जीवितस्य च कारणं आत्मरक्षार्थ जिह्वायाः कारणं आहारस्य हेतोरुपस्थस्य कारणं कामनिमित्तं जीवो म्रियते स्वयं प्राणत्यागं करोति मारयति चान्याँश्च हिनस्ति प्राणविघातं च कारयति अनंतशोऽनंतवारान् सर्वकालमेवेति ॥ ९६ ॥
तथा;जिब्भोवत्थणिमित्तं जीवो दुक्खं अणादिसंसारे । पत्तो अणंतसो तो जिब्भोवत्थे जयह दाणि ॥ ९७ ॥ जिव्होपस्थानिमित्तं जीवो दुःखं अनादिसंसारे। प्राप्तः अनंतशः ततः जिव्होपस्थं जय इदानीं ॥ ९७ ॥ टीका-रसनेन्द्रियनिमित्तं स्पर्शनेन्द्रियनिमित्तं चानादिसंसारे जीवो दुःखं प्राप्तोऽनंतशोऽनंतवारान् यतोऽतो जिह्वामुपस्थं च जय सर्वथा त्यजेदानीं सांप्रतमिति ॥ ९७ ॥ चदुरंगुला च जिब्भा असुहा चदुरंगुलो उवत्थो वि । अटुंगुलदोसण दु जीवो दुक्खं खु पप्पोदि ।। ९८॥