________________
१४०
मूलाचारे
चतुरंगुला च जिह्वा अशुभा चतुरंगुल उपस्थोपि । अष्टांगुलदोषेण तु जीवो दुःखं खलु प्राप्नोति ॥ ९८ ॥ टीका-चतुरंगुलप्रमाणा जिह्वा अशुभा चतुरंगुलप्रमाणं चोपस्थं मैथुनक्रियानिमित्तं एतदष्टांगुलदोषेणैव जीवो दुःखं प्राप्नोति स्फुटं यतस्ततो जिह्वामुपस्थं च त्यज जयेति ॥ ९८ ॥
स्पर्शनजयकारणमाह;बीहेदव्वं णिचं कटुत्थस्स वि तहित्थिरुवस्स । हवदि य चित्तक्खोभो पञ्चयभावेण जीवस्स ॥९९॥
भेतव्यं नित्यं काष्ठस्थादपि तथा स्त्रीरूपात् । भवति च चित्तक्षोभः प्रत्ययभावेन जीवस्य ॥ ९९ ॥
टीका-भेतव्यं नित्यं सर्वकालं त्रासः कर्त्तव्यः काष्ठस्थादपि स्त्रीरूपात् काष्ठलेपचित्रादिकर्मणोऽपि स्त्रीरूपादुद्वेगः कर्त्तव्यो यतो भवति चित्तक्षोभः मनसश्चलनं प्रत्ययभावेन विश्वासात्कारणवशाज्जीवस्यति॥९९॥ ___ तथा;घिदरिदघडसरित्थो पुरिसो इत्थी बलंतअग्गिसमा। तो महिलेयं दुक्का णट्ठा पुरिसा सिवं गया इयरे॥१०॥ . घृतभृतघटसदृशः पुरुषः स्त्रीज्वलदग्निसमा।
तां महिलामंतं ढौकिता नष्टाः पुरुषाः शिवं गता इतरे ॥१०॥ टीका-पुरुषो घृतभृतकुंभसदृशः स्त्री पुनर्बलदनलसदृशी यथा प्रज्वलदग्निसमीपे स्त्यांन ? घृतपूर्णघटः शीघ्रं प्रक्षिरात तथा स्त्रीसमीपे मनुष्या यत एवं ततो महिलायाः समीपमुपस्थिता जल्पहासादिवशं गताः पुरुषा नष्टा ये च न तत्र संगतास्ते शिवं गताः शिवंगतिं प्राप्ता इति ॥ १० ॥ . १ अस्य स्थाने ' स्थितः' इत्यनेन पाठेन भाव्यं । २ शिवां गतिं प्रेस-पुस्तके ।