________________
समयसाराधिकारः ।
तथा;
माया वहिणीए धूआए मूइ वुडू इत्थीए । बीहेदव्वं णिचं इत्थीरूवं णिरावेक्खं ॥ १०१ ॥ मातुः भगिन्या दुहितुः मूकाया वृद्धायाः स्त्रियाः । भेतव्यं नित्यं स्त्रीरूपं निरपेक्षं ॥ १०१ ॥
१४१
टीका - मातुः स्त्रीरूपाद्भगिन्याश्च स्त्रीरूपात् दुहितुश्च स्त्रीरूपात् मूकाया वृद्वायाश्च स्त्रीरूपात् भेतव्यं नित्यं निरपेक्षं यतः स्त्री तु पावकरूपमिव सर्वत्र दहतीति ॥ १०१ ॥
तथा;—
हत्थपादपरिच्छिण्णं कण्णणासवियप्पियं । अविवास सदिं णारिं दूरिदो परिवज्जए ॥ १०२ ॥ हस्तपादपरिच्छिन्नां कर्णनासाविकल्पितां ।
अविवाससं सतीं नारीं दूरतः परिवर्जयेत् ॥ १०२ ॥
टीका — हस्तच्छिन्ना पादच्छिन्ना च कर्णहीना नासिकाविहीना च सुष्टु विरूपा यद्यपि भवति तथापि अविवस्त्रां सतीं नग्नामित्यर्थः, नारीं दूरतः परिवर्जयेत् यतः काममलिनस्तां वांछेदिति ॥ १०२ ॥
ब्रह्मचर्यभेदं प्रतिपादयन्नाह; -
मण बंभर वचि बंभचेर तह काय बंभचरं च । अहवा हु बंभचेरं दव्वं भावं ति दुवियप्पं ॥ १०३ ॥
मनसि ब्रह्मचर्यं वचसि ब्रह्मचर्यं तथा काये ब्रह्मचर्यं च । अथवा हि ब्रह्मचर्यं द्रव्यं भावमिति द्विविकल्पं ॥ १०३ ॥ टीका - मनसि ब्रह्मचर्यं वचसि ब्रह्मचर्यं काये ब्रह्मचर्यमिति त्रिप्र-