________________
१४२
मूलाचारे
कारं ब्रह्मचर्यमथवा स्फुटं ब्रह्मचर्य द्रव्यभावभेदेन द्विविधं तत्र भावबह्मचर्य प्रधानमिति ॥ १०३॥
यतः;
भावविरदो दु विरदो ण दव्वविरदस्स सुग्गई होई। विसयवणरमणलोलो धरियन्यो तेण मणहत्थी ॥१०४॥
भावविरतस्तु विरतो न द्रव्यविरतस्य सुगतिः भवति । विषयवनरमणलोलो धारयितव्यः तेन मनोहस्ती॥ १०४ ॥
टीका-भावेन विरक्तोंऽतरंगेण च यो विरक्तः स एव विरतः संयतो न द्रव्येणाब्रह्मवृत्या विरतस्य तस्य सुगतिः शोभना गतिर्भवति यतोऽतो विषया रूपादयस्त एव वनमारामस्तस्मिन् रमणलोलः क्रीडालंपटो धारयितव्यो नियमितव्यस्तेन मनोहस्ती चित्तकुंजर इति ॥ १०४ ॥
अब्रह्मकारणं द्रव्यमाह;पढमं विउलाहारं विदियं कायसोहणं । तदियं गंधमल्लाई चउत्थं गीयवाइयं ।। १०५॥ प्रथमं विपुलाहारः द्वितीयं कायशोधनं । तृतीयं गंधमाल्यानि चतुर्थ गीतवादित्रं ॥ १०५॥ टीका-प्रथममब्रह्मचर्य विपुलाहारः प्रचुरगृह्यान्नग्रहणं, द्वितीयमब्रह्म कायशोधनं स्नानाभ्यंगनोद्वर्त्तनादिभी रागकारणैः शरीरस्य संस्करणं, तृतीयमब्रह्म गंधमाल्यानि यक्षकर्दमा महिषीधूपादिना सुगंधग्रहणं, चतुर्थमब्रह्म गीतवादित्रादि सप्तस्वरपंचातोद्यवंशवीणातंत्रीप्रभृतिकमिति ॥१०५॥
तथा;तह सयणसोधणं पि य इत्थिसंसग्गं पि अत्थसंगहणं। पुव्वरदिसरणमिंदियविसयरदी पणिदरससेवा ॥१०६॥