SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ समयसाराधिकारः । १४३ तथा शयनशोधनमपि च स्त्रीसंसर्गोपि अर्थसंग्रहणं। पूर्वरतिस्मरणं इंद्रियविषयरतिः प्रणीतरससेवा ॥१०६ ॥ टीका तथा शयनं तूलिकापर्यंकादिकं शोधनं क्रीडागृहं चित्रशालादिकं रहस्यस्थानं कामोद्रेककारणं पंचममब्रह्म । तथापि च स्त्रीसंसर्गे रागोत्कटवनिताभिः कटाक्षनिरीक्षणपराभिरुपप्लवशीलाभिः संपर्कः क्रीडनं षष्ठमब्रह्म । तथार्थस्य सुवर्णादिकस्याभरणवस्त्रादिकस्य च ग्रहणं सप्तममब्रह्म । तथा पूर्वरतिस्मरणं पूर्वस्मिन् काले यत् क्रीडितं तस्यानुस्मरणं चिंतनमष्टममब्रह्म । तथेंद्रियविषयेषु रूपरसगंधशब्दस्पर्शेषु कामांगेषु रतिः समीहा नवममब्रह्म । तथा प्रणीतरससेवा इष्टरसानामुपसेवनं दशममब्रह्म । अब्रह्मकारणत्वादब्रह्मेति ॥ १०६ ॥ तस्य दशप्रकारस्यापि परिहारमाह;दसविहमब्बंभमिणं संसारमहादुहाणमावाहं । परिहरइ जो महप्पा सो दृढभव्वदो होदि ॥१०७॥ दशविधमब्रह्म इदं संसारमहादुःखानामावाहं । परिहरति यो महात्मा स दृढब्रह्मवतो भवति॥ १०७ ॥ टीका-एवं दशप्रकारमप्यब्रह्मेदं संसारकारणानां महदुःखानामावाहमवस्थानं प्रधानहेतुभूतं परिहरति यो महात्मा संयतः स दृढब्रह्मवतो भवति । भावाब्रह्मकारणं द्रव्याब्रह्मकारणं च यः परित्यजति तस्योभयथापि ब्रह्मचर्य सम्यक् तिष्ठतीति स च चारित्रवानिति ॥ १०७ ॥ परिग्रहपरित्यागे फलमाह;कोहमदमायलोहेहिं परिग्गहे लयइ संसजइ जीवो। तेणुभयसंगचाओ कायव्वो सव्वसाहहिं ॥१०८॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy