________________
१४४
मूलाचारे
क्रोधमदमायालोभैः परिग्रहे लगति संसजति जीवः। .. तेनोभयसंगत्यागः कर्तव्यः सर्वसाधुभिः ॥ १०८॥ टीका-यतः क्रोधमदमायालोभैः परिग्रहे लगति संसजति परिग्रहत्वात् गृह्णाति जीवस्तेन कारणेनोभयसंगत्यागः कर्त्तव्यो बाह्याभ्यंतरपरिग्रहपरिहारः कार्यः । उभयाब्रह्म च परिहरणीयं येन सह क्रोधमानमायालोभाश्च यत्नतस्त्याज्याः सर्वसाधुभिरिति ॥ १०८॥
ततः;णिस्संगो णिरारंभो भिक्खाचरियाए सुद्धभावो य। एगागी झाणरदो सव्वगुणड्डो हवे समणो ॥ १०९ ॥ निःसंगो निरारंभो भिक्षाचर्यायां शुद्धभावश्च। एकाकी ध्यानरतः सर्वगुणाढ्यो भवेत् श्रमणः ॥ १०९ ॥
टीका-उभयपरिग्रहाभावैर्निःसंगो मूर्छारहितस्ततश्च निरारंभः पापक्रियादिभ्यो निवृत्तस्ततश्च भिक्षाचर्यायां शुद्धभावो भवति ततश्चैकाकी ध्यानरतः संजायते ततश्च सर्वगुणाढ्यः सर्वगुणसंपन्नो भवेत् ॥ १०९॥
श्रमणविकल्पमाह;णामेण जहा समणो ठावणिए तह य दवभावेण । णिक्खवो वीह तहा चदुविहो होइ णायव्वो ॥११०॥
नाम्ना यथा श्रमणः स्थापनया तथा च द्रव्यभावाभ्यां । निक्षेपोपि इह तथा चतुर्विधो भवति ज्ञातव्यः॥ ११० ॥
टीका-श्रमणगोचरं निक्षेपमाह;-नाम्ना यथा श्रमणः स्थापनया तथैव तत्र द्रव्येण भावेन च तथैव द्रष्टव्यः । नामश्रमणमात्रं नामश्रमण: तदाकृतिपादिषु स्थापनाश्रमणो गुणरहितलिंगग्रहणं द्रव्यश्रमणो मूलगु