________________
समयसारााधेकारः।
१४५
णोत्तरगुणानुष्ठानप्रवणभावो भावश्रमणः । एवमिह निक्षेपस्तथैवागमप्रतिपादितक्रमेण चतुर्विधो भवति ज्ञातव्य इति ॥ ११०॥
तेषां मध्ये भावश्रमणं प्रतिपादयन्नाह;भावसमणा हु समणा ण सेससमणाण सुग्गई जम्हा । जहिऊण दुविहमुवहिं भावेण सुसंजदो होह ॥ १११ ॥ भावश्रमणा हि श्रमणा न शेषश्रमणानां सुगतिर्यस्मात् । हित्वा द्विविधपधिं भावने सुसंयतो भव ॥ १११ ॥
टीका-भावश्रमणा एव श्रमणा यतः शेषश्रमणानां नामस्थापनाद्रव्याणां न सुगतिर्यस्मात्तस्मादिविधमुपधिं द्रव्यभावरूपं परित्यज्य भावेन सुसंयतो भवेति ॥ १११ ॥
भिक्षाशुद्धिं च कुर्वित्याह;वदसीलगुणा जम्हा भिक्खाचरिया विसुद्धिए ठंति । तम्हा भिक्खाचरियं सोहिय साहू सदाविहारिज्ज॥११२॥ .. व्रतशीलगुणा यस्मात् भिक्षाचर्याया विशुद्धयां तिष्ठति।
तस्मात् भिक्षाचर्या शोधयित्वा साधुः सदा विहरेत् ॥ ११२॥ टीका--व्रतानि शीलानि गुणाश्च यस्माद्भिक्षाचर्याया विशुद्ध्यां सत्यां तिष्ठति तस्माद्भिक्षाचर्या संशोध्य साधुः सदा विहरेत् । भिक्षाचर्याशुद्धिश्च प्रधानं चारित्रं सर्वशास्त्रसारभूतमिति ॥ ११२ ॥
तथैतदपि विशोध्याचरेदित्याह;भिक्खं वक्तं हिययं सोधिय जो चरदि णिच्च सो साह। एसो सुहिद साहू भणिओ जिणसासणे भयवं ॥११३॥
भिक्षां वाक्यं हृदयं शोधयित्वा यः चरति नित्यं स साधुः । } एष सुस्थितः साधुणितो जिनशासने भगवान् ॥ ११३ ॥
१०