________________
मूलाचारे
टीका-भिक्षां गोचरशिद्धं वाक्यं वचनशुद्धिं हृदयं मनःशुद्धिं विशोध्य यश्चरति चारित्रोद्योगं करोति साधुर्नित्यं स एष सुस्थितः सर्वगुणोपेतः साधुभणितो भगवान् , क? जिनशासने सर्वज्ञागमे इति ॥११३॥ ... तथैतदपि सुष्टु ज्ञात्वा चरत्वित्याह;दव्वं खत्तं कालं भावं सत्तिं च सुटु णाऊण । झाणज्झयणं च तहा साहू चरणं समाचरऊ॥११४ ॥
द्रव्यं क्षेत्रं कालं भावं शक्तिं च सुष्टु ज्ञात्वा । ध्यानाध्ययनं च तथा साधुश्चरणं समाचरतु ॥ ११४॥ टीका-द्रव्यमाहारशरीरादिकं क्षेत्रं जांगलरूपादिकं कालं सुषमासुषमादिकं शीतोष्णादिक भावं परिणामं च सुष्ठु ज्ञात्वा ध्यानमध्ययनं तथा ज्ञात्वा साधुश्चरणं समाचरतु । एवं कथितप्रकारेण चारित्रशुद्धिभवतीति ॥ ११४ ॥
तथाभयत्यागफलमाह;चाओ य होइ दुविहो संगच्चाओ कलत्तचाओ य। उभयच्चायं किच्चा साहू सिद्धिं लहू लहदि ॥ ११५ ॥ त्यागश्च भवति द्विविधः संगत्यागः कलत्रत्यागश्च । उभयत्यागं कृत्वा साधुः सिद्धिं लघु लभते ॥ ११५ ॥
टीका-त्यागश्च भवति द्विविधः संगत्यागः कलत्रत्यागश्च तत उभयत्यागं कृत्वा साधुर्लघु शीघ्र सिद्धिं लभते न तत्र संदेह इति ॥ ११५ ॥
चारित्रशुद्धिमसंयमप्रत्ययकषायप्रत्यययोगप्रत्ययस्वरूपशुद्धिं च प्रतिपाद्य दर्शनशुद्धिं मिथ्यात्वप्रत्ययशुद्धिं च प्रतिपादयन्नाह;पुढवीकायिगजीवा पुढवीर चावि अस्सिदा संति। तम्हा पुढवीए आरंभे णिचं विराहणा तेसिं ॥ ११६ ॥