SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ समयसाराधिकारः। पृथिवीकायिकजीवाः पृथिव्याः चापि आश्रिताः संति । तस्मात् पृथिव्या आरंभे नित्यं विराधना तेषां ॥ ११६ ।। टीका-पृथिवीकायिकजीवास्तवर्णगंधरसाः सूक्ष्माः स्थूलाश्च तदाश्रिताश्चान्ये जीवास्त्रसाः शेषकायाश्च संति तस्मात्तस्याः पृथिव्या विराधनादिके खननदहनादिके आरंभे आरंभसमारंभसंरंभादिके च कृते निश्चयेन तेषां जीवानां तदाश्रितानां प्राणव्यपरोपणं स्यादिति । एवमप्कायिकतेजःकायिकवायुकायिकवनस्पतिकायिकत्रसकायिकानां तदाश्रितानां च समारंभे ध्रुवं विराधनादिकं भवतीति निश्चेतव्यम् ॥ ११६ ॥ तम्हा पुढविसमारंभो दुविहो तिविहेण वि। जिणमग्गाणुचारीणं जावजीवं ण कप्पई ॥ ११७॥ तस्मात् पृथिवीसमारंभो द्विविधः त्रिविधेनापि । जिनमार्गानुचारिणां यावज्जीवं न कल्प्यते ॥ ११७ ॥ टीकाः–यतः पृथिवीकायिकादीनां तदाश्रितानां च समारंभे ध्रुवा हिंसा तस्मात्पृथिवीसमारंभः खननादिको द्विविधो द्विप्रकारो पृथिवीकायिकतदाश्रितोभयरूपोऽपि त्रिविधेन मनोवाक्कायरूपेण जिनमार्गानुचारिणां यावज्जीवं न कल्यते न युज्यत इति । एवमप्तेजोवायुवनस्पतित्रसानां विप्रकारेऽपि समारंभेऽवगाहनसेचनज्वालनतापनवीजनमुखवातकरणच्छेदनतक्षणादिकं न कल्प्यते जिनमार्गानुचारिण इति ॥ ११७ ॥ ___ असंयमप्रत्ययं तद्विशुद्धिं च प्रतिपाद्य मिथ्यात्वप्रत्ययं तद्विशुद्धिं प्रतिपादयन्नाह;जो पुढविकाइजीवे ण वि सद्दहदि जिणेहिं णिद्दिढे । दूरत्यो जिणवयणे तस्स उवट्ठावणा णत्थि ॥ ११८॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy