SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १४८ मूलाचारे यः पृथिवीकायिकजीवान् नापि श्रद्दधाति जिनैः निर्दिष्टान् । दूरस्थो जिनवचनात् तस्य उपस्थापना नास्ति ॥ ११८ ॥ टीका – यः पृथिवीकायिकान् जीवान् न श्रद्दधाति नाभ्युपगच्छति जिनैः प्रज्ञप्तान् प्रतिपादितान् स जिनवचनात् दूरं स्थितो न तस्योपस्थापनाऽस्ति न तस्य सम्यग्दर्शनादिषु संस्थितिर्विद्यते मिथ्यात्वादिति । एवमकायिकान् वनस्पतिकायिकान् सकायिकाञ्च तदाश्रिताँश्च यो नाभ्युपगच्छति तस्याप्युपस्थापना नास्ति सोऽपि मिथ्यादृष्टिरेव न कदाचिदपि मुक्तिमार्गे तस्य स्थितिर्यतो दर्शनाभावेन चारित्रस्य ज्ञानस्य चाभाव एव दर्शना विनाभावित्वात्तयोरिति ॥ ११८ ॥ यः पुनः श्रद्दधाति स सद्दृष्टिरिति प्रतिपादयन्नाह ;-- जो पुढविकाजवे अइसहदे जिणेहिं पण्णत्ते । उवलद्वपुण्णपावस्स तस्सुवद्वावणा अस्थि ।। ११९ ।। यः पृथिवी कायिकजीवान् अतिश्रद्दधाति जिनैः प्रज्ञप्तान् । उपलब्धपुण्यपापस्य तस्योपस्थापना अस्ति ॥ ११९ ॥ टीका - यः पृथिवीकायिक जीवांस्तदाश्रिताँश्चातिशयेन श्रद्दधाति मन्यते जिनैः प्रज्ञप्तान् तस्योपलब्धपुण्यपापस्योपस्थापना विद्यते मोक्षमार्गे तस्य संस्थितिरवश्यंभाविनीति । एवमप्कायिकतेज:कायिकवायुकायिकवनस्पतिकायिकत्रसकायिकांस्तदाश्रिताँश्च यः श्रद्दधाति मन्यतेऽभ्युपगच्छति तस्योपलब्धपुण्यपापस्योपस्थापना विद्यत इति ॥ ११९ ॥ न पुनः श्रद्दधाति तस्य फलमाह; ण सहदि जो एदे जीवे पुढविदं गदे । स गच्छे दिग्धमद्भाणं लिंगत्थो वि हु दुम्मदी ॥ १२० ॥ न श्रद्दधाति य एतान् जीवान् पृथिवीत्वं गतान् । स गच्छेत् दीर्घमध्वानं लिंगस्थोपि हि दुर्मतिः ॥ १२० ॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy