________________
समयसाराधिकारः ।
१४९
टीका - न श्रद्दधाति नाभ्युपगच्छति य एतान् जीवान् पृथिवीत्वं गतान् पृथिवीकायिकान् तदाश्रिताँश्च स गच्छेद्दीर्घमध्वानं दीर्घसंसारं लिंगस्थोऽपि नाग्न्यादिलिंगसहितोऽपि दुर्मतिर्यत इति । एवमप्कायिकतेज:कायिक वायुकायिकवनस्पति कायिकत्रस कायिकान् तदाश्रिताँश्च यो न श्रद्दधाति नाभ्युपगच्छति स लिंगस्थोऽपि दुर्मतिर्दीर्घसंसारं गच्छेदिति ॥१२०॥ एवंभूतान् जीवान् पातुकामः श्रीगणधरदेवस्तीर्थकर परमदेवं पृष्टवानिति, तत्प्रश्नस्वरूपमाह;--
कथं चरे कथं चिट्ठे कधमासे कथं सये । कथं अंजेज्ज भासिज्ज कथं पावं ण वज्झदि ॥ १२१ ॥ कथं चरेत् कथं तिष्ठेत् कथमासीत कथं शयीत । कथं भुंजीत भाषेत कथं पापं न बध्यते ॥ १२१ ॥
टीका — एवं प्रतिपादितक्रमेण जीवनिकायकुले जगति साधुः कथं केन प्रकारेण चरेद्गच्छेदनुष्ठानं वा कुर्यात् कथं तिष्ठेत् कथमासीत कथं वा शयीत कथं भुंजीत कथं भाषेत कथं वदेत् कथं पापं न बध्यते केन प्रकारेण पापागमो न स्यादिति ॥ १२१ ॥
प्रश्नमालाया उत्तरमाह;
जदं चरे जं चिट्ठे जदमासे जद सये ।
जदं भुंजेज्ज भासेज्ज एवं पावं णं बज्झइ ॥ १२२ ॥ यत्नेन चरेत् यत्नेन तिष्ठेत् यत्नेनासीत यत्नेन शयीत । यत्नेन भुंजीत भाषेत एवं पापं न बध्यते ॥ १२२ ॥
टीका - यत्नेनेर्यापथसमितिशुद्ध्या चरेत् यत्नेन तिष्ठेत् महाव्रतादिसंपन्नो यत्नेनासीत प्रतिलिख्य जीवानविराधयन् पर्यकादिना यत्नेन शयीत प्रतिलिख्योद्वर्त्तनपरावर्त्तनादिकर्म कुर्वन् संकुचितात्मा रात्रौ शयनं कुर्यात् यत्नेन भुंजीत षट्चत्वारिंशद्दोषवर्जितां भिक्षां गृह्णीयाद्यत्नेन भाषेत भाषासमितिक्रमेण सत्यवतोपपन्नः एवमनेन प्रकारेण पापं च न बध्यते कर्मास्रवो न भवतीति ॥ १२२ ॥
,