________________
मूलाचारे
१५०
यत्नेन चरतः फलमाह;
जं तु चरमाणस्स दयाहुस्स भिक्खुणो ।
ण ण बज्झदे कम्मं पोराणं च विधूयदि ॥ १२३ ॥ यत्नेन तु चरतः दयाप्रेक्षकस्य भिक्षोः ।
नवं न बध्यते कर्म पुराणं च विधूयते ॥
१२३॥
टीका – यत्नेनाचरतो भिक्षोर्दयाप्रेक्षकस्य दयाप्रेक्षिणो नवं न बध्यते कर्म चिरंतनं च विधूयते निराक्रियते । एवं यत्नेन तिष्ठता यत्नेनासीनेन यत्नेन शयनेन यत्नेन भुंजानेन यत्नेन भाषमाणेन नवं कर्म न बध्यते चिरंतनं च क्षीयते ततः सर्वथा यत्नाचारेण भवितव्यमिति ॥ १२३॥ समयसारस्योपसंहारगाथेयः-
एवं विधाणचरियं जाणित्ता आचरिज जो भिक्खू | णासेऊण दु कम्मं दुविहं पिय लहु लहइ सिद्धिं ॥ १२४॥
एवं विधानचरितं ज्ञात्वा आचरेत् यो भिक्षुः । नाशयित्वा तु कर्म द्विविधमपि च लघु लभते सिद्धिं ॥ १२४ ॥
टीका - एवमनेन प्रकारेण विधानचरितं क्रियानुष्ठानं ज्ञात्वा आचरति यो भिक्षुः स साधुर्नाशयित्वा कर्म द्विप्रकारमपि शुभाशुभरूपमपि द्रव्यरूपं भावरूपं वा शीघ्रं लभते सिद्धिं यत एवं चारित्रान्मोक्षो भवति सर्वस्य सारभूतं चारित्रं तत इति दशमस्य समयसारसंज्ञकस्याचारस्य ॥ १२४ ॥ इति श्रीमद्वट्टकेर्याचार्यवर्यप्रणीते मूलाचारे श्रीवसुनंद्याचार्यप्रणीताचारवृत्त्याख्यटीकासहि दशमः समयसाराधिकार: ॥ *
* ख-ग-पुस्तकेऽस्य स्थानेऽयं पाठः-
इति वसुनन्दिविरचितायामाचारवृत्तौ दशमः परिच्छेदः ।