SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १५१... शीलगुणाधिकारः । . शीलगुणाधिकारः। सीलगुणालयभूदे कल्लाणविसेसपाडिहेरजुदे। . वंदित्ता अरहंते सीलगुणे कित्तइस्सामि ॥१॥ शीलगुणालयभूतान् कल्याणविशेषप्रातिहार्ययुक्तान् । वंदित्वा अर्हतः शीलगुणान् कीर्तयिष्यामि ॥१॥ - टीका-शील-शीलं व्रतपरिरक्षणं शुभयोगवृत्तिरशुभयोगवृत्तिपरिहार आहारभयमैथुनपरिग्रहसंज्ञाविरतिः पंचेंद्रियनिरोधः कायसंयमविषयोद्भवदोषाभावः क्षात्यादियोगश्च, गुणा-गुणाः संयमविकल्पाः पंचमहाव्रतादयः कषायाद्यभावोऽतिक्रमायभावः षट्रायसविकल्पसंयमदशप्रकाराब्रह्माभाव आकंपितादिदोषविमुक्तिरालोचनादिप्रायश्चित्तकरणं, शीलानि च गुणाश्च शीलगुणास्तेषामालयभूताः सम्यगवस्थानं संजाताः शीलगुणालयभूतास्तान् शीलगुणालयभूतान् व्रतानां व्रतपरिरक्षणानां चाधारान् । कल्लाण-कल्याणानि स्वर्गावतरणजन्मनिष्क्रमणकेवलज्ञानोत्पत्तिनिर्वाणगमनानि, विसेस-विशेषा अतिशयविशेषाश्चतुस्त्रिंशत्, स्वाभाविका दश निःस्वेदत्वादिकाः, घातिकर्मक्षयजा दश गव्यूतिशतचतुष्टयसुभिक्षत्वादिका, देवोपनीताश्चतुर्दश सर्वार्द्धमागधिकभाषादयः, पाडिहेर-प्रातिहार्याण्यष्टौ सिंहासनादीनि, जुदे-युक्तान् सहितान्, कल्याणानि चातिशयविशेषाश्च प्रातिहार्याणि च कल्याणविशेषप्रातिहार्याणि तैर्युक्तास्तान् कल्याणविशेषप्रातिहार्ययुक्तान् सर्वान सर्वज्ञत्वचिन्होपेतान् त्रिषष्टिकर्मक्षयजगुणसंयुक्तान, बंदित्ता-वंदित्वा प्रणम्य,अरहंतअर्हतः सर्वज्ञनाथान्, शीलगुणे-शीलगुणान् शीलानि गुणांश्च, कित्तइस्सामिकीर्तयिष्यामि सम्यगनुवर्तयिष्यामि । अर्हतः शीलगुणालयभूतान् कल्याणविशेषप्रातिहार्ययुक्तान् वंदित्वा शीलगुणान् की यष्यामीति संबंधः ॥१॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy