________________
१५२
मूलाचारे
शीलानां तावदुत्पत्तिक्रममाह; -
जो कर सण्णा इंदिय भोम्मादि समणधम्मे य । अण्णोष्णेहिं अभत्था अट्ठारहसीलसहस्साइं ॥ २ ॥
योगाः करणानि संज्ञा इंद्रियाणि भ्वादयः श्रमणधर्माश्च । अन्योन्यैः अभ्यस्ता अष्टादशशील सहस्राणि ॥ २ ॥
टीका - जोए - योग आत्मप्रदेशपरिस्पदः स निमित्तभेदात् त्रिधा भिद्यते काययोगो मनोयोगो वाग्योग इति । तद्यथा । वीर्यान्तरायक्षयोपशसद्भावे सत्यौदारिकादिसप्तकायवर्गणान्यतमालंबनापेक्ष आत्मप्रदेशपरिस्पंदः काययोगः, शरीरनामकर्मोदयापादितवाग्वर्णनालंबने सति वीर्या - तरायमत्यक्षराद्यावरणक्षयोपशमादिनाभ्यंतरवाग्लब्धिसान्निध्ये वाक्परिणामाभिमुखस्यात्मनः प्रदेशपरिस्पंदो वाग्योगः, अभ्यंत रवीयतरायनोइंद्रियावरणक्षयोपशमात्मकमनोलब्धिसन्निधाने बाह्यनिमित्तमनोवर्गणालंबने सति मनः परिणामाभिमुखस्यात्मनः प्रदेशपरिस्पंदो मनोयोगः, कायवाङ्मनसां शुभक्रिया इत्यर्थः । करणे - करणानि कायवाङ्मनसामशुभक्रियाः सावद्यकर्मादाननिमित्ताः । सण्णा - संज्ञा आहारभयमैथुनपरिग्रहाभिलाषाः । इंदिय-इंद्रियाणि । भोम्मादि-भूः पृथिवी आदिर्येषां ते भ्वादयः पृथिवीकायादयः । समणधम्मे य-श्रमणधर्माश्व संयताचरणविशेषाश्च । अण्णाणेहिं अन्योनैन्योन्यं परस्परं । अन्भत्था - - अभ्यस्ताः समाहताः । त एते योगादयः श्रमणधर्मपर्यंताः परस्परं गुणिताः, अट्ठारह - अष्टादशशीलसहस्राणि । योगैः करणानि गुणितानि नव भवंति, पुनराहारादिसंज्ञाभिश्चतसृभिर्नव गुणितानि षट् त्रिंशद्भवंति शीलानि, पुनरिन्द्रियैः पंचभिगुणितानि षट्त्रिंशत् अशीत्यधिकं शतं पुनः पृथिव्यादिभिदर्शभिः कायैरशीतिशतं गुणितं अष्टादशशतानि भवंति पुनः श्रमणधर्मैर्दशभिरष्टादशशतानि गुणितानि अष्टादशशलिसहस्राणि भवतीति ॥ २ ॥