SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ पर्याप्त्यधिकारः। २८९ ज्ञातव्याः स्फुटं, तेभ्यश्च सम्मूर्च्छनजा मनुष्या असंख्यातगुणाः श्रेण्यसंख्यातैकभागमात्राः सर्वश्रेण्यसंख्यातभागाः ऊनकोटीकोटीप्रदेशमात्राः सूच्यंगुलप्रथमवर्गमूलेन सूच्यंगुलतृतीयवर्गमूलगुणितेन श्रेणे गे हते यल्लब्धं तावन्मात्रा १ त एते अपर्याप्ता लब्ध्यपर्याप्ता एव, शेषाः पुनः संख्याता ये मनुष्यास्ते सर्वे पर्याप्ता नास्ति तेषां लब्ध्यपर्याप्तत्वं । एवं देवनारकाणामपि सर्वेषां लब्ध्यपर्याप्तत्वं नास्ति निवृत्यपर्याप्तत्वं पुनर्विद्यत एवेति ॥ १७५-१७६-१७७-१७८ ॥ देवगतावल्पबहुत्वमाह;थोवा विमाणवासी देवा देवी य होंति सव्वेवि । तेहिं असंखेजगुणा भवणेसु य दसविहा देवा ॥१७९ ॥ तेहिं असंखेनगुणा देवा खलु होति वाणवेतरिया। तेहिं असंखेजगुणा देवा सब्वेवि जोदिसिया ॥१८०॥ स्तोका विमानवासिनो देवा देव्यश्च भवंति सर्वेऽपि । तेभ्यः असंख्येयगुणा भवनेषु च दशविधा देवाः ॥ १७९ ॥ तेभ्यः असंख्येयगुणा देवाः खलु भवंति वानव्यंतराः। तेभ्यः असंख्येयगुणा देवाः सर्वेपि ज्योतिष्काः ।। १८० ॥ टीका-देवगतौ देवा देव्यश्च सर्वे स्तोकाः सौधर्मादिविमानवासिनः असंख्याताः श्रेणिमात्रा घनांगुलतृतीयवर्गमूलमात्राः साधिकाः श्रेणयः । तेभ्यश्चासंख्यातगुणा भवनेषु दशविधा भवनवासिन असंख्याताः श्रेणयः घनांगुलप्रथमवर्गमूलमात्राः श्रेणयः । तेभ्यश्चासंख्यातगुणाः स्फुटमष्टप्रकारा व्यंतराः प्रतरासंख्यातभागमात्राः संख्यातप्रतरांगुलैः श्रेणेर्भागे हृते यल्लब्धं तावन्मात्राः श्रेणयः । तेभ्यश्च पंचप्रकारा ज्योतिष्का असंख्यातगुणाः प्रतरासंख्यातभागमात्राः पूर्वोक्तासंख्यागुणितैरतंख्येयप्रतरांगुलैः श्रेणे गे १९
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy