________________
२८८
मूलाचारे
मनुष्यगतावल्प वहुत्वमाह,
अंतरदवे मणुया थोवा मणुयेसु होंति णायव्वा । कुरुवसु दस माया संखेज्जगुणा तहा होंति ॥ १७५ ॥ तत्तो संखेज्जगुणा मणुया हरिरम्मएस वस्सेसु । तत्तो संखिज्जगुणा हेमवदहरिण्णवस्साय ॥ १७६ ॥ भररावदमणुया संखेज्जगुणा हवंति खलु तत्तो । तत्तो संखिज्जगुणा नियमादु विदेहगा मणुया ॥ १७७ ॥ सम्मुच्छिमाय मणुया होंति असंखिज्जगुणा य तत्तो दु ते चैव अपज्जत्ता सेसा पज्जत्तया सव्वे ॥ १७८ ॥
अंतर्द्वषेषु मनुजाः स्तोका मनुजेषु भवंति ज्ञातव्या : । कुरुषु दशसु मनुजा: संख्येयगुणाः तथा भवंति ॥ १७५ ॥ ततः संख्येयगुणा मनुजा हरिरम्यकेषु वर्षेषु । ततः संख्येगुणा हैमवत हैरण्यवर्षयोः ॥ १७६ ॥ भरतैरावतमनुजाः संख्येयगुणा भवंति खलु ततः । ततः संख्येयगुणाः नियमात् विदेहका मनुजाः ॥ १७७ ॥ संमूहिमाश्च मनुजा भवंति असंख्येयगुणाश्च ततस्तु । एते एव अपर्याप्ताः शेषाः पर्याप्ताः सर्वे ॥ १७८ ॥ टीका - मनुष्यगतौ सर्वे स्तोकाः संख्याताः सर्वांतद्वीपेषु मनुष्याः ऊ । तेभ्यश्च दशसु कुरुषूपभोगभूमिषु मनुष्याः संख्यातगुणा भवति ज्ञातव्याः । ऊऊ । तेभ्यश्च दशसु भोगभूमिषु हरिरम्यकवर्षेषु मनुष्याः संख्यातगुणाः । ऊऊऊ । तेभ्यश्च दशसु जघन्य भोगभूमिषु हैमवत हैरण्यवतसंज्ञकासु मनुष्याः संख्यातगुणाः । ऊऊऊऊ । तेभ्यश्व पंचसु भरतेषु पंचस्वैरावतेषु च मनुष्याः संख्यातगुणाः । ऊऊऊऊऊ। तेभ्यश्च निश्वयेन मनुष्या विदेहेषु संख्यातगुणा भवंति । ऊ ऊ ऊ ऊ ऊ ।