________________
२९०
मूलाचार
हृते यल्लब्धं तावन्मात्राः श्रेणयः । अथ वा सर्वतः स्तोकाः सर्वार्थसि
द्धिदेवाः संख्याताः ततो विजयवैजयन्तजयन्तापराजितनवानुत्तरस्था असंख्यातगुणाः पल्योपमासंख्यातभागप्रमितास्ततो नव ग्रैवेयका आनतप्राणतारणाच्युताश्चासंख्यातगुणाः पल्योपमासंख्यातभागप्रमिताः ९ । ततः शतारसहस्रारदेवा असंख्यातगुणाः श्रेणिचतुर्थवर्गमूलखंडितश्रेण्येकभागमात्राः १ । ततः शुक्रमहाशुक्रदेवाः असंख्यातगुणाः श्रेणिपंचमवर्गमूलखंडितश्रेण्यकभागमात्राः ५ । ततो लांतवकापिष्ठदेवाः असंख्यातगुणाः श्रेणिसप्तमवर्गमलखंडितश्रेण्येकभागमात्राः १ । ततो ब्रह्मब्रह्मोत्तरदेवा असंख्यातगुणाः श्रेणिनवमवर्गमूलगुणाः श्रोणिचतुर्थवर्गमूलखंडितश्रेण्येकभागमात्राः १ । नवमवर्गमूलखांडतश्रण्यभागमात्राः । ततः सनत्कुमारमाहेंद्रदेवा असंख्यातगुणाः श्रेण्येकादशवर्गमूलखंडितश्रेण्येकभागमात्राः । ततः सोधर्मेशानदेवा असंख्यातगुणाः । शेषं पूर्ववत् द्रष्टव्यमिति । अथ वा सर्वस्तोका अयोगिनश्चत्वार उपशमकाः संख्यातसंगुणाः ततः सयोगिनः संख्यातगुणास्ततोऽप्रमत्ताः संख्या तगुणास्तत: संयतासंयतास्तिर्यमनुष्या असंख्यातगुणाः पल्योपमासंख्यातभागमात्राः ५९९ ९९ । ततश्चतसृषु गतिषु सासादनसम्यग्दृष्टयोऽसख्यातगुणाः पं० । ततश्चतसृषु गतिषु सम्यमिथ्यादृष्टयः संख्यातगुणाः पल्य ९० । ततश्चतसृषु गतिषु असंयतसम्यग्दृष्टयोऽसंख्यातगुणा एतैः सिद्धा अनंतगुणास्ततः सर्वे मिथ्यादृष्टयोऽनंतानंतगुणाः स्युरिति ॥ १७९-१८० ॥
पुनरपि देवान् गुणेन निरूपयन्नाह;अणुदिसणुत्तरदेवा सम्मादिट्ठीय होति बोधव्या। तत्तो खलु हेट्ठिमया सम्मामिस्सा य तह सेसा ॥१८१॥
अनुदिशानु तरदेवाः सम्यग्दृष्टयो भवंति बोद्धव्याः । ततःखलु अधस्तनाः सम्यमिश्राश्च तथा शेषाः॥ १८१ ॥