________________
पर्याप्त्यधिकारः।
२९१
टीका-पंचानुत्तरनवानुदिशदेवाः सम्यग्दृष्टयो निश्चयेन ज्ञातव्या भवंति तेभ्यः पुनरधो मिथ्यादृष्टयः सासादनाः सम्यतिथ्यादृष्टयोऽसंयतसम्यग्दृष्टयो भवंति तथा शेषाश्च नारकतिर्यनुष्या मिश्रा भवंतीति॥१८१॥
अल्पबहुत्वं प्रतिपाद्य बंधकारणं प्रतिपादयन्नाह;- . मिच्छादसणअविरदिकसायजोगा हवंति बंधस्स । आऊसज्झवसाणं हेदव्यो ते दु णायव्वा ॥ १८२ ॥ मिथ्यादर्शनाविरतिकषाययोगा भवंति बंधस्य । आयुषोऽध्यवसानं हेतवस्ते तु ज्ञातव्याः ॥ १८२॥ टीका-भिथ्यात्वाविरतिकषाययोगास्त एव हेतवो वंधस्यायुषो भवंति पुनरध्यवसायः परिणामः हेतुर्भवतीति ज्ञातव्याः । पंच मिथ्यात्वानि पंचेंद्रियाणि मनः षट्कायविराधनानि त्रयोदश योगाः षोडश कषाया नव नोकषायाश्च सर्वे एते पंचपंचाशत्प्रत्ययाः कर्मवंधस्य हेतवो वोद्धव्या भवंति; अन्ये भेदा अत्रैवांतर्भवंतीति ॥ १८२ ॥
बंधस्वरूपं प्रतिपादयन्नाह;जीवो कसायजुत्तो जोगादो कम्मणो दु जे जोग्गा। गेण्हइ पोग्गलदवे बंधो सो होदि णायव्यो ।। १८३॥
जीवः कषाययुक्तो योगात् कर्मणस्तु यानि योग्यानि । गृह्णाति पुद्गलद्रव्याणि बंधः स भवति ज्ञातव्यः ॥ १८३॥ टीका-जीवः कषाययुक्तः क्रोधादिपरिणतः योगान्मनोवाक्कायकियाभ्यः कर्मणो योग्यानि यानि पुद्गलद्रव्याणि गृहाति स बंधः कषाययुक्त इति पुनर्हेतुनिर्देशस्तीव्रमंदमध्यमकषायानुरूपस्थित्यनुभवविशेषप्रतिपत्त्यर्थमाह-स्वक आत्मा कषति कर्मादत्त इति चेत् नैष दोषो जीवत्वात् जीवो