________________
मूलाचारे
नामप्राणधारणादायुःसंबंधात्, न पुनरायुर्विरहाज्जीवो येन आत्मना पुरतः पुद्गलानादत्ते कर्मयोग्यानिति लघु निर्देशात्सिद्धः कर्मणा योग्यानिति पृथग्विभक्त्युच्चारणं वाक्यांतरज्ञापनार्थं किं पुनस्तद्वाक्यांतरमत आह, कर्मणो जीवः सकषायो भवतीत्येवं वाक्यं एतदुक्तं भवति कर्मण इति हेतुनिर्देशः, कर्मणो हेतोर्जीवः कषायपरिणतो भवति अकर्मकस्य कषायलोपोऽस्ति ततो जीवः कर्मणो योग्यानिति, तयोरनादिसंबंध इत्युक्तं भवति ततोऽमूर्त्तः जीवः मूर्त्तेन कर्मणा कथं वध्यत इति वोध्यमपाकृतं भवति, इतरथा हि वंधस्यादिमत्त्व आत्यंतिकीं शुद्धिं दधतः सिद्धस्यैव बंधाभावः प्रसज्येत इति द्वितीयवाक्यं योग्यान् पुद्गलान् गृह्णातीति । अर्थवशाद्विभक्तिपरिणाम इति पूर्व हेतुसंबंधं त्यक्त्वा षष्टीसंबंधमुपैति कर्मणो याग्यानिति । पुद्गलवचनं कर्मणस्तादात्म्यख्यापनार्थं तेनात्मगुणो दृष्टो निराकृतो भवति संसारहेतुर्न भवति यतो गृण्हातीति हेतुहेतुमद्भावख्यापनार्थः अतो मिथ्यादर्शनाया वेशादार्द्रीकृतस्यात्मनः सर्वयोगविशेषसूक्ष्मैकक्षेत्रावगाहिनामनंतप्रदेशानां पुद्गलानां कर्मभावयोग्यानामविभागेनोपश्लषो बंध इत्याख्यायते, यथा भाजनविशेषक्षिप्तानां विविधरसपुष्पफलानां मदिराभावेन परिणामस्तथा पलानामप्यात्मनि स्थितानां योगकषायवशात्कर्मभावेन परिणामो वेदितव्यः । स वचनमन्यनिर्वृत्त्यर्थं स एष बंधो नान्योऽस्ति तेन गुणगुणिबंध निर्वर्त्तितो भवति तुशब्दोऽवधारणार्थः । कर्मादिसाधनो बंधशब्दो व्याख्यात इति ॥ १८३ ॥
२९२
आह, किमयं बंध एकरूप एवाहोस्वित्प्रकारा अस्य, तदुच्यते;पयडिट्ठिदिअणुभागप्पदेसबंधो य चदुविहो होइ । दुविहो य पयडिबंधो मूलो तह उत्तरी चेव ॥ १८४ ॥
प्रकृतिस्थित्यनुभागप्रदेशबंधश्च चतुर्विधो भवति । द्विविधश्च प्रकृतिबंधो मूलस्तथोत्तरश्चैव ॥ १८४ ॥