________________
समयसाराधिकारः ।
पचनं पाचनमनुमननं सेवमानो न संयतो भवति । जेमन्नपि च यस्मात् नापि श्रमणः संयमो नास्ति ॥४१॥ टीका-पचनं पाचनमनुमननं च सेवमानो न संयतो भवति, तस्माझुंजानोऽपि च पुनर्न श्रमणो नापि संयमस्तत्रेति ॥ ४१ ॥
बहुश्रुतमाप चारित्रहीनस्य निरर्थकमिति प्रतिपादयन्नाह;बहुगं पि सुदमधीदं किं काहदि अजाणमाणस्स । दीवविसेसो अंधे णाणविसेसो वि तह तस्स ॥ ४२ ॥ बहुकमपि श्रुतमधीतं किं करिष्यति अजानतः । दीपविशेषः अंधे ज्ञानविशेषोपि तथा तस्य ॥ ४२ ॥ टीका-बह्वपि श्रुतमधीतं किं करिष्यत्यजानतश्चारित्रमनाचरत उपयोगरहितस्य । यथा प्रदीपविशेषोंऽधे लोचनरहिते न किंचित्करोति तथा ज्ञानविशेषोऽपि चारित्ररहितस्य न किंचित्करोतीति ॥ ४२ ॥
परिणामवशेन शुद्धिमाह;आधाकम्मपरिणदो फासुगदव्वे वि बंधगो भणिदो। सुद्धं गवेसमाणो आधाकम्मे वि सो सुद्धो ॥४३॥
अधःकर्मपरिणतः प्रासुकद्रव्येपि बंधको भणितः । शुद्धं ग्वेषमाणः अधःकर्मण्यपि स शुद्धः ॥४३॥ टीका-प्रासुकद्रव्ये सत्यपि योऽधःकर्मपरिणतः स बंधको भणित आगमे । यदि पुनः शुद्धं मृगयमाणोऽधःकर्मण्यप्यसौ शुद्धः परिणामशुद्धरिति ॥ ४३ ॥
१ शुद्धिमशुद्धिं चाह ख-ग-पुस्तके । २ सति शब्दो नास्ति ख-ग-पुस्तके