________________
११४
मूलाचारे
टीका-नैव तस्येह लोको नाऽपि परलोक उत्तमार्थाच्चारित्राद् भ्रष्टस्य, लिंगग्रहणं तु तस्य निरर्थकं संयमेन हीनस्यति ॥ ३८॥
तथा;पायच्छित्तं आलोयणं च काऊण गुरुसयासहि । तं चेव पुणो भुंजदि आधाकम्मं असुहकम्मं ॥ ३९ ॥
प्रायश्चित्तं आलोचनं च कृत्वा गुरुसकाशे। तदेव पुनः भुंक्ते अधःकर्म अशुभकर्म ॥ ३९ ॥ टीका-कश्चित्साधुः प्रायश्चित्तं दोषनिर्हरणं आलोचनं च दोषप्रकटनं च कृत्वा गुरुसकाशे गुरुसमीपे पुनरपि तदेव भुंक्तेऽधःकर्माशुभकर्म । यदर्थ प्रायश्चित्तादिकं कृतं तदेव भुंक्ते यस्तस्यापि नेह लोको नापि परलोक इति ॥ ३९ ॥
तथा;जो जत्थ जहा लद्धं गेण्हाद आहारमुवधिमादीयं । समणगुणमुक्कजोगी संसारपवडओ होइ ॥४०॥
यो यत्र यथा लब्धं गृह्णाति आहारमुपधिकादिकं । श्रमणगुणमुक्तयोगी संसारप्रवर्धको भवति ॥ ४० ॥ टीका-यः साधुर्यत्र देशे शुद्धेऽशुद्धे वा यथा लब्धं शुद्धमशुद्धं वा गृह्णाति आहारमुपधिकादिकं च यः श्रमणगुणमुक्तयोगी स तु संसारप्रवर्धको भवतीति ॥ ४० ॥
तथा;पयणं पायणमणुमणणं सेवंतो ण संजदो होदि । जेमंतो वि य जमा ण वि समणो संजमोणत्थि॥४१॥