________________
समयसारााधेकारः।
पुनरपि विशेषतोऽधःकर्मणि दोषमाह;जो भुंजदि आधाकम्मं छज्जीवाण घायणं किच्चा । अबुहोलोल सजिब्भोण विसमणो सावओ होज्ज॥३६॥ यो भुक्ते अधःकर्म षट्जीवानां घातनं कृत्वा । अबुधो लोलः सजिह्वः नापि श्रमणः श्रावकः भवेत् ॥ २६ ॥ टीका-यो भुक्तेऽधःकर्म षड्जीवानां घातनं कृत्वा अबुधोऽसौ लोलो लंपटः सजिह्वो जिह्वावशं गतः नापि श्रमणः किं तु श्रावकः स्यात् । अथवा न श्रमणो नापि श्रावकः स्यात् उभयधर्मरहितत्वादिति ॥ ३६ ॥
तथा;पयणं व पायणं वा अणुमणचित्तो ण तत्थ बीहेदि। जेमंतो वि सघादी ण वि समणो दिट्ठिसंपण्णो ॥३७॥ पचने वा पाचने वा अनुमनचित्तो न तत्र बिभेति। जेमन्नपि स्वघाती नापि श्रमणः दृष्टिसंपन्नः ॥ ३७॥ टीका-पचने वा पाचने वाऽनुमननचित्तः कंडन्यायुपकरणेनाधःकर्मणि प्रवृत्तोनुमतिकुशलश्च न च तस्मात्पचनादिकाद्विभेति भुंजानोऽपि स्वघाती नापि श्रमणो न च दृष्टिसंपन्नो विपरीताचरणादिति ॥ ३७ ॥
तथा;ण हु तस्स इमो लोओ ण वि परलोओ उत्तमभट्टस्स। लिंगग्गहणं तस्स दुणिरत्थयं संजमेण हीणस्स ॥३८॥
न हि तस्य अयं लोकः नापि परलोक उत्तमार्थभ्रष्टस्य । लिंगग्रहणं तस्य तु निरर्थकं संयमेन हीनस्य ॥ ३८ ॥ १ वेति ख-ग-पुस्तके नास्ति ।