________________
११६
मूलाचारे
तथा;भावुग्गमो य दुविहो पसत्थपरिणाम अप्पसत्थोत्ति । सुद्धे असुद्धभावो होदि उवट्ठावणं पायछित्तं ॥४४॥
भावोद्गमश्च द्विविधः प्रशस्तपरिणामः अप्रशस्त इति । शुद्धे अशुद्धभावो भवति उपस्थापनं प्रायश्चित्तं ॥४४॥ टीका--भावोद्गमश्च भावदोषश्च द्विप्रकार: प्रशस्तपरिणामोऽप्रशस्तपरिणामश्च, तत्र शुद्ध वस्तुनि यद्यशुद्धभावं करोति तत्रोपस्थापनप्रायश्चित्तं भवतीति ॥ ४४ ॥
तस्मात्;फासुगदाणं फासुगउवधि तह दो वि अत्तसोधीए । जो देदि जो य गिण्हदि दोण्हं पि महप्फलं होइ॥४५॥ प्रासुकदानं प्रासुकोपधि तथा द्वयमपि आत्मशुद्धया । यो ददाति यश्च गृह्णाति द्वयोरपि महाफलं भवति ॥ ४५ ॥ टीका-यत एवं विशुद्धभावेन कर्मक्षयस्ततः प्रासुकदानं निरवद्यभैक्ष्यं प्रासुकोपधिं हिंसादिदोषरहितोपकरणं च द्वयमपि तथात्मशुद्ध्या विशुद्धपरिणामेन यो ददाति यश्च गृह्णाति तयोयोरपि महत्फलं भवति, यत्किंचिदाहारादिकं शोभनं निरवयं वातपित्तश्लेष्मोपशमनकारणं सर्वरसोपेतं तन्मया प्रतिग्रहादिपूर्वकं श्रद्धादिगुणसमन्वितं दातव्यमिति तद्दातृत्वशुद्धिः, मया सर्वोऽप्याहारादिविधिस्त्याज्यः किमनेन शोभनाहारेण गृहीतेन यत्किंचित्प्रासुकं गृहीत्वा कुक्षिपूरणं कर्तव्यमिति परिणामः पात्रस्यात्मशुद्धिरिति ॥ ४५ ॥
किमर्थं चर्याशुद्धिः प्रपंचेनाख्यायत इत्याशंकायामाह;जोगेसु मूलजोगं भिक्खाचरियं च वणियं सुत्ते । अण्णे य पुणो जोगा विण्णाणविहीणएहिं कया॥४६॥